________________
144444
गतपकं यथा तुंबं जले यात्युपरि स्वयम् । क्षीणकर्ममलो जीवस्तथा याति शिवालयम् ॥१३॥
इत्याराध्यो वीतरागो गुरुस्तत्त्वोपदेशकः। दयामूलस्तु धर्मो यस्तत्फलं वपुनर्भवः ॥१४॥” इत्थं तत्वोपदेशं निशम्य कुबेरः प्रतिबोधं प्राप्तः। नृपोऽपि प्रतिबुद्धः। मुनिं नत्वा स्वगृहं ययौ । वज्रवीर्यनृपः स्वांगजाय वज्रनाभकुमाराय योग्यं ज्ञात्वा राज्यं दत्वा पत्न्या सह कुवेरेण च सह वमुपाददे । वज्रनाभो नृपो न्यायेन महीमपालयत् । तस्य | विजयाकुक्षिसमुद्भवचक्रायुधाभिधः सुतः समजनि । सोऽपि क्रमेण यौवनं प्राप्तः । युवराजपदवी प्राप्तवान् । अन्यदा नृपो वातायनस्थितः शुभध्यानं ध्यायन जातिस्मरणं प्राप्तवान् । पूर्वभवपालितं चारित्रं सस्मार । तदा स स्वधिया दध्यो-" अहो भवसमुद्रस्य वीचिभिः कोन भ्राम्यति । एके उत्पद्यन्ते, एके विलीयन्ते, एके गायन्ति, एके रुदन्ति, एके हसन्ति, एके विलपन्ति । ज्वलति ज्वलने कृती | अल्पभारं बहुमूल्यं च यत्कर्षति तद्भव्यं । अत एव समुद्रावगाहने चारित्रयानाधारं विना भवजलधिः कथं तरीतुं शक्यते "। इति वैराग्यरंगरंगितो नृपतिव्रतं जिघृक्षुः पुत्रं मित्रमिवाकार्य स्वाभिप्रायमचिकथत । तदा चक्रायुधोब्रवीत्-" ताताहं त्वत्पादसेवाग्रणीरस्मि । अधुना का प्रस्तावः । व्रतं पश्चिमे वयसि युक्तं । इदानी लोकस्य लालनं मम च पालनं युज्यते" । ततो नृपः प्राह-"व| |स को वेत्ति पश्चिमं प्रथमं वा वयः ? मा त्वं ममान्तरायकृद्भव । चर्वितचर्वणैः किं ? त्वं पूर्वक्रमागतं राज्यभारं निधेहि । यथाऽहं तव साहाय्यात स्वार्थसाधको भवेयं" । इत्युक्त्वा तं सुतं मौनपरं राज्ये निवेश्य क्षेमंकरजिनान्तिके परिव्रज्यामुपाददे । स मुनिर्वाचं राज्यं परित्यज्यान्तरंगराज्यं धर्ममाददे । यस्य विरतिर्भार्या, संवेगोऽङ्गजः,विवेकोऽमात्यः, विनयस्तुरंगमः, आर्जवं पट्टहस्ती, शीलांगनामा स्थः, शमदमादयो भृत्याः, सम्यक्त्वं सौधः, सन्तोषः सिंहासनं, यशश्छत्रं तु विस्तृतं, धर्मध्यानशुक्लध्याने सुचामरे उभे । एवंविधमन्तरंगरा
Jan Educatiemations
For Personal & Private Use Only
W.Jainelibrary.org