________________
पार्श्व०
८२ ॥
भावपूजा तु सर्वज्ञे व्रतरूपा प्रकीर्तिता । देशसर्वविरत्या या भेदतस्तत्पुनर्द्विधा ॥ ४॥ तत्र देशतं जीवहिंसादीनां प्रदेशतः । निषेधेन सर्वथा तु स्यात्सर्वविरवित्रतम् ॥ ५ ॥ जीवाजीव तथा पुण्यं पापमाश्रवसंवरौ । बन्धश्च निर्जरा मोक्षो नव तत्त्वानि तन्मते ॥ ६ ॥ तत्र जीवः कर्मकर्ता भोक्ता कर्मफलस्य च । चैतन्यलक्षणस्तस्माद्जीवो वैपरीत्यभाक् ॥ ७ ॥ सत्कर्मपुद्गलाः पुण्यं पापं त्वेतद्विपर्ययः । आश्रवश्चित्तवाक्कायव्यापारा बन्धहेतवः ॥ ८ ॥ संवरस्तन्निरोधेन तथा जीवस्य कर्मणा । यः संवन्धस्तयोः स वन्यस्तत्प्रकीर्तितः ॥ ९ ॥ बद्धस्य कर्मणः सादो यतस्तु निर्जरा, मता । आत्यन्तिको वियोगश्च देहादेर्मोक्ष उच्यते ॥१०॥ एतानि नव तत्त्वानि यः श्रद्धते स्थिराशयः । सम्यक्त्वज्ञानयोगे ! तस्य चारित्रयोग्यता ॥ ११ ॥ इति सिद्धान्तेऽप्युक्तम्
नाणं पयासयं सोहओ तवसंजमो ॐ गुत्तिकरो । तिनं पि समाओगे मुक्खो जिणसासणे भणिओ ॥
१ नाशः
temational
For Personal & Private Use Only
चरित्र
॥ ८२ ॥
www.jainelibrary.org