________________
ार्श्व०
१९ ॥
66
*% *%%
त्वं मे पिता स्वामी, त्वमेव शरणं, एकं मदीयं व्यलीकं क्षमस्व" । तच्छ्रुत्वा भृकुटी भंगभीषणः सिंह उक्तवान्- 'रे रे दुष्ट मदीयं | मयूरमर्पय स्मर वाऽभीष्टदेवतां' तदा मित्रकलत्राभ्यां विनाऽखिलो लोको व्याकुलो जातः । ततः स ऊचे - ' मम पितुर्वचनस्यातिक्रमणेनेदृशं फलमभूत् ' । पितुरुक्तं वचः पुनः पुनः स्मृत्वा यथास्थितं तं मयूरं समर्प्य सिंहनृपं पल्लीपतिमापृच्छ्य प्रसन्नास्यस्ततोऽचलत् । स सिंहेन बोधितोऽपि नास्थाद् । तेनोक्तं- 'प्रत्यक्षदृष्टदोषेषु कोऽवस्थितिं करोति १ । स ततो गच्छंश्चिन्तयामास - "धिगमीषां दुष्टचेष्टितं । खलसंगतिः किंपा कवृक्षच्छायेव दुःखदायिनी । एतेषां यन्मयोपकृतं तदग्निसात्कृतं । नृणां मृत्युरपि श्रेयान् परं मूर्खदुष्टसंगतिर्न वरा । यतः -
पंडितोऽपि वरं शत्रुर्न मूर्खो हितकारकः । वानरेण हतो राजा विप्रचौरेण रक्षितः ॥ १ ॥
किंच
शिरसा सुमनःसंगाद्धार्यन्ते तन्तवोऽपि हि । तेऽपि पादेन मृद्यन्ते पटेऽपि मलसंगताः ॥ २ ॥ मयाऽधमानां स्वामिमित्रकलत्राणां परीक्षणं कृतं । इदानीं पितुर्वचः करिष्यामि " । इति विचिन्त्य स क्रमेण गच्छन् सुन्दर| पुरं नगरं प्रापत् । तत्र हेमरथो राजा राज्यं करोति । तस्य पुत्रो गुणसुन्दरः कुमारः । स पुरबाह्ये वाह्यालीं कृत्वा श्रान्तस्तरुच्छायायां भृत्यैः परिवृतः स्थितोऽस्ति । तदा स प्रभाकरः सहसा तत्रैवागतः । प्रणामः कृतः । राजपुत्रेण तस्य सत्कारसन्मानादिकं दत्तं । स तत्रोपविष्टः । शास्त्रगोष्ठी कृता । राजपुत्रस्तत्र भोजनं कृतवान् । प्रभाकरोऽपि भोजितः । परस्परसंलापमधुरालापः कृतः । यतः --
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ७९ ॥
w.jainelibrary.org