________________
4
+4+4+4+4+4+4+4+43
प्रभाकरेण ठक्कुरस्य मयूरकं यत्नात् संगोप्यान्यस्य मयूरस्यामिषेण दोहदः पूरितः। अथ भोजनवलायां ठक्कुरस्तं मयुरमदृष्ट्वा मनुष्यान् || प्रेष्य सर्वतो वीक्षयामास । मयूरः कुत्रापि न लब्धः । राज्ञे कथितं । तावता ठक्कुरो भृशमाकुलव्याकुलो जातः। स उच्चैः पटहोद्घो&ाषणां कारयामास-" सिंहनृपस्य मयूरशुद्धिं यः कोऽपि कथयति तस्मै दीनारशतं समर्पयामि"। तच्छ्रुत्वा दास्या चिन्तितं-"अनेन | वैदेशिकेन किं द्रव्यं गृह्णामि । ममान्यो भर्ता भविष्यति" । इति विचिन्त्य सा पटहं स्पृष्ट्वा सिंहनृपान्तिकं गत्वाऽवदत्-"स्वामिन् यथातथं शृणु । यतः
सत्यं मित्रैः प्रियं स्त्रीभिरलीकमधुरं द्विषा । अनुकूलं च सत्यं च वक्तव्यं स्वामिना सह ॥१॥ स्वामिन् निशि मे मयूरामिपभक्षणे दोहदो जातः । प्रभाकरेण तं मयूरं समानीय मयि वारयन्त्यामपि स व्यापादितः। तस्यामिषेण मम दोहदः पूरितः" । तच्छ्रुत्वा सिंहो रुष्टः-"किं महतां संगाद्विनष्टो जातोऽयं वा स्वभावात् " । ततो राजा प्रभाकरं निगृहीतुं स्वभटान् प्रेषीत् । सोऽपि मित्रपरीक्षार्थ लोभनन्दिमित्रगृहेऽगमत् । कंपमानांग उवाच-" भो मित्र मां रक्ष रक्ष "। तदा लोभनन्दी तमप्राक्षीत्-"भोः किं त्वया विनाशितं ?" स उवाच-'कलत्रार्थे मया स्वामिबी विनाशितः। तच्छत्वा मित्रा
घमः प्राह-" स्वामिद्रोहविधायिनः कः स्थानं ददाति ? प्रज्वलन्तं पूलकं स्वगृहे को निक्षिपेत् ? " एवं वदतो लोभनन्दिनो गृहे &ायावत्प्रभाकरः प्रविवेश तावल्लोभनन्दिना पूचके । तावता नृपभटा आगताः । तैः स बध्ध्या बहिनीतः । तस्य निग्रहाय ते उद्यताः।
तावत्स दैन्यमभाषत-"मया भवतामुपकारः कृतः, मां रक्षत । किं च मां प्रभोरग्रे नयत" । इत्युक्ते तैस्तत्र नीतः सकरुणं जगौ-"देव |
GACAAAAXXXCOM
in Education International
For Personal & Private Use Only
Kinelibrary.org