SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ चरित्र लब्धं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्म समासेवितुम् । रोधुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त समीहसे गुणवतां संगं तदंगीकुरु ॥३॥ सुसंगस्य माहात्म्याज्जीवः सौख्यमामोति । यतः पश्य सत्संगमाहात्म्यं स्पर्शपाषाणयोगतः । लोहं स्वर्ण भवेत्स्वर्णयोगात्काचो मणीयते ॥१॥ . विवेकाय भवत्येवाकुलजोऽपि सुसंगतः । कुलजातोऽपि दाहाय शंखो वह्निनिषेवणात्॥२॥. आस्तां सचेतसां संगात् सदसत् स्यात्तरोरपि । अशोकः शोकनाशाय कलये तु कलिद्रुमः ॥३॥ धर्मोपि जीवेन सत्संगत्या प्राप्यते । अत्र प्रभाकरनिदर्शनमुच्यते । तथाहि-- ॥अथ प्रभाकरदृष्टांतः॥ अस्त्येव भरतक्षेत्रे वीरपुरनगरे यजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूपषद्कर्मकर्मठों दिवाकरनामा विप्रो वसति । तस्यांगजः | प्रभाकरोऽस्ति । स निरंकुश इव सर्वत्र भ्रमति । स्वेच्छया रमते, धातुं धमति, छूतं कुरुते, स्वैरं यत्र तत्र क्रीडां कुरुते । पिता तं शिक्षयते "वत्स किं कुरुपे ? आत्मापि नात्मीयः ततः कोऽन्यो भविष्यति ? किं कुव्यसनानि सेवसे ? शास्त्राणि अवगाहस्व । काव्यरसामृतं | पिब । सुकला शिक्षस्व । धर्म कुरु । निजकुलं समुद्धर । यतः___ एकेनापि सुपुत्रेण विद्यायुक्तेन साधुना। कुलं पुरुषसिंहेन चन्द्रेण गगनं यथा ॥१॥ ॥ ७७॥ JainETAIL For Personal & Private Use Only nam.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy