SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ E5%E4+4+4+4+4+4 ॥ इति सम राजकार्यप्राधान्यं दत्तं । लितगतिः कथं कृतोऽस्मि ? मयीदृशो विश्वासो नोचितः" । नृपः प्रोवाच-"वत्स त्वं देवतादत्तवरलब्धोऽस्मद्वंशपुरोधाः, त्वयि विश्वासः कथं नो भवेत् ! त्वयि विषये देवतया विनयविवेकगुणौ मुक्तौ तौ तव साहाय्यकारिणी ।" तदा तेन राज्ञोग्रे सर्वमपि स्वकीयं गुप्तं स्वरूपं प्रोक्तं । राजा प्रोवाच-" वत्स त्वं सदोषोऽपि निर्दोष एवासि, विनयविवेकसहायात् । उक्तं च'... यस्य तस्य प्रसूतोऽत्र गुणवान् पूज्यते नरः। सुवंशोऽपि धनुर्दडो निर्गुणः किं करिष्यति ॥१॥ स नृपोक्तं निशम्य लज्जयाधोमुखः तस्थौ । तदा तस्य नृपेण राजकार्यप्राधान्यं दत्तं । स राजकार्य कृत्वा क्रमात् सद्धर्ममासाद्य | सुमतिः सुगतिं यया ॥ तत्माद्धर्मस्य मूलभूतौ विनयविवेकौ तावेव ग्राह्यौ । तावेव गुणौ सत्संगत्या भवतः । सत्संगतेः शास्त्रोक्तं फलं शृणु । | सज्जनाः कीदृशाः? यतःन ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परद्धिषु परावाधासु धत्ते शुचम्। . स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लंघयत्युक्तोऽप्यप्रियमक्षमा न रचयत्येतच्चरित्रं सताम् ॥१॥ सज्जनसंगत्याः किं फलम् ? हरति कुगति भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्म व्यपोहति दुर्मतिं जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥२॥ तत्माद्धर्मस्य मूलभूती ROMAMACHAR x x in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy