________________
PATO
७६ ॥
लितगतिः स सर्वत्र क्रीडां कर्तुं भ्रमति । सोऽन्यदा भांडागारे प्रविष्टः । तत्र नृपस्य मुक्ताफलहारं दृष्ट्वा देवतादिष्टदोषवशाञ्चलचित्तः सन् तमग्रहीत् । तं संगोप्य सशंकमनास्तरलेक्षणः प्रयातुमुद्यतः तावद्विवेकेन क्षणादाश्रितोऽचिन्तयत् - " धिङ् मां किमिदं विश्वनिन्दितं कर्म निर्ममे ? अहो चौर्यसमं पापं पृथिव्यामन्यन्नास्ति " इति विचिन्त्य हारं स्थानके तत्रैव मुक्त्वा गृहमागतः । अथाप्य| न्यदा राजमध्येऽस्खलितगत्या क्रीडया भ्रमन् राजपत्न्या कामरागेण सुरतेच्छयाऽऽभाषितः- “भोः सुमते समागच्छ, निव्यंजनं स्थानमस्ति, मया सह विलासं कुरु " । तच्छ्रुत्वा सुमतिः कुमतीभूय तत्र गन्तुं प्रवृत्तवान् । तात्रता विवेकेन बन्धुनेव वारितः“ अहो धिङ मां, यतो राजप्रेयस्यां मातृकल्पायां यन्मे मनः सविकारं समजनि । परस्त्रीसंगिन इह भवे शिरच्छेदादिकं परभवे |च नारकत्वं प्राप्नुवन्ति । स महान् स एव पंडितः, य आभ्यः कुटिलांगीभ्यो भुजंगीसदृशीभ्यो दूरं व्रजति । मयाऽतः परं परनारीसहोदरं महावर्त पालनीयं " । इति विचिन्त्य तस्याः पादयोर्निपत्य स्वगृहेऽगमत् । एकदा कौतुकी द्यूतकाराणां समीप कौतुकार्थ क्रीडार्थ च समागतः । तेषां व्यसनं विलोकितं । तेषां स्वरूपमपि दृष्टं । एके परस्परं विवदन्ति एके तु कलहायन्ते, एके तु द्रव्यं हारयन्ति, एके तु हसन्ति, एके तु चोरयन्ति । तादृशं तद् दृष्ट्वा चिन्तयति -- "घृतव्यसनं धिगस्तु । यतः - द्यूतं न किं त्यजत किं दहत स्वदेहं छागं च मूत्रयत किं वदने स्वकीये । तत्तादृशप्रियतमासहितो नलोऽपि जानीत रोर इव राज्यसुखान्निरस्तः ॥ १ ॥
इदं द्यूतव्यसनं मम नो संजाघटीति" । इति विचिन्त्य स्वगृहे गतः । एकदा क्रीडां कुर्वन् राजसदसि गतः । नृपं नमोऽकरोत् । राज्ञोत्संगे कृत्वा चुंचितः । तदा तेन सुमतिनोक्तं- “स्वामिन् नीतिशास्त्रे उक्तमस्ति कस्यापि विश्वासो नो विधीयते, अहं अस्व
Jain Education International
For Personal & Private Use Only:
चरित्र
* ॥ ७६ ॥
www.jainelibrary.org