SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ NASHIKARAN लधान्यानि २६ । ढकवास्तुलः शाकविशेषः । स च प्रथमोद्गत एवानन्तकायिको न तु च्छिन्नप्ररूढः २७ । सूकरवल्लः स एवानन्त कायिको न तु घान्यवल्लः २८ | पल्यंक: शाकभेदः २९ । कोमलाम्लिका अवस्थाकिका चिंचिणिका ३० । आलूकः ३१ । पिंडादलुको ३२ कन्दभेदौ । न चैत एवानन्तकायाः, चतुर्दशलक्षा अनन्तकायिकाः । तेषां लक्षणान्युच्यन्तेP गूढसिरसंधिपवं समभंगमहीरुगं च छिन्नरुहं । साहारणं सरीरं तविवरीयं च पत्तेअं॥१॥ .. इत्यादिसिद्धान्तोक्ततल्लक्षणयुक्ता अन्येपि ज्ञेया हेयाश्च । चतस्रो नरकद्वारः प्रथमं रात्रिभोजनम्। परस्त्रीगमनं चैव संधानानन्तकायिकाः ॥१॥ * अनन्तकायाद्यभक्ष्यं चाचित्तभूतमपि परिहार्य । अथार्द्रकादेः स्वयं परेणाचित्तीकृतस्य ग्रहणे. को दोषः ? उच्यते-निःशू लौल्यवृद्धयादिपरंपरया सचित्ततगृहणप्रसंगवृद्धयादिश्च (दोषः)। यथोक्तम् इक्केण कयमकजं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपर वुच्छेओ संजमतवाणं ॥१॥ | इति द्वात्रिंशदनन्तकायस्वरूपं ज्ञात्वा त्याज्यं । तथा आलस्यादिना घृततैलभाजनानामस्थगनं, मार्गे सति हरितकायाद्युपरि ४ अशोधिताध्वनि वा गमनं, अनालोकितस्थाने हस्तक्षेपादि, सत्यपि स्थाने सचित्तोपरि स्थित्यादि वस्रादेर्वा मोचनं, पनककुंथ्या धाकान्तभुव्यवस्रावणादेस्त्यजनं, अयतनया कपाटागंलादानादि, वृथा पत्रपुष्पादित्रोटनं, मृत्खटिकावर्णिकादिमर्दनं, वह्वयुद्दीपनं, गवादिषातादीनां शस्त्रव्यापारणं, निष्ठुरमर्मभाषणहास्यनिन्दाकरणादि । रात्री दिवाऽप्ययतनया वा स्नानकेशग्रथनखंडनरन्धनभूखनन ROXACIRCLEAK Jain Edu ernational For Personal & Private Use Only www.gainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy