SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ रात्रिभोजननियमाराधनविराधनयोर्मित्रत्रयदृष्टान्तः तद्यथा-देवपल्लीग्रामे श्रावकभद्रकमिथ्यादृष्टयस्त्रयः सुहृदो वणिजोऽभूवन् । ते चान्यदा जैनाचार्यान्धिकै जग्मुः । आचार्या अपि रात्रिभोजननियमदेशनां प्रारेभिरे । तच्छ्रुत्वा तै रात्रिभोजनवर्जनादिनियमश्चक्रे । तत्र श्राद्धेन रात्रिभोजनकन्दमूलाद्यभक्ष्यनियमः श्राद्धकुलोद्भवतया सोत्साहतयैव जगृहे । भद्रकेण बहु विमृश्य रात्रिभोजन एव नियमो गृहीतः । मिध्यादृष्टिस्तु न प्रतिबुद्धः, कदाग्रहग्रस्तत्वात् । यतः - आग्रही बत निनीषति युक्तिं तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ १ ॥ तदनुं श्रावकभद्रकयोः कुटुंबे अपि रात्रिभोजनादिनियमपरे अभूतां । गृहेशानुसारिणी हि गृहव्यवस्था | श्रावकश्च क्रमात्प्रमादबहुलतया स्वनियमे शिथिलमतिर्जातः । स्वकार्यव्याकुलतया प्रातः सायं च त्याज्यघटीद्रयमध्येऽपि भुंक्ते, क्रमात् सूर्येऽस्तंगतेऽपि सम्यनियमाधकभद्रकादिभिनोदितस्तु 'संप्रति दिवस एवास्ति, क्व रात्रिः १' इत्यादि प्रत्याह । तदनुसारेण सकलं तत्कुटुंबमपि तथैव जातं । अहह गृहस्वामिनः प्रमादबहुलतायाः पापप्रसंगवृद्धिः । अन्यदा भद्रकः किञ्चिन्नृपादिष्टकार्यव्यग्रतया प्रातर्मध्याप्यभुक्तः सूर्यास्तमनवेलायां कथमपि भोक्तुं गृहमागतः । तावदुत्सूरोभूत् । ततः सुहृद | दिभिः भृशमभ्यर्थितोऽपि भद्रको नाभुंक्त । यतः अप्पहियं कायव्वं जई सक्का परहिअं पि कायव्वं । अप्पहियपरहियाणं अप्पहिअं चैव कायव्वं ॥ १ ॥ Jain Education Infernational For Personal & Private Use Only %%%%% www.jaihelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy