SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वि० ६८ ॥ मद्यं द्विधा काष्ठपिष्टभेदात् । मासं त्रिधा जलचरस्थलचरखचरभेदात् । मधु त्रिधा माक्षिकं कौत्रिकं भ्रामरं चेति । नवनीतं चतुर्धा गोमहिष्यजैडकासंभवं एवं सर्वमीलने नव ९ । हिमं शुद्धासंख्येयाप्कायरूपत्वात् १० । विषं मंत्रोपहतवीर्यमप्युदरान्तर्व| गंडोलकादिजीवघात हेतुत्वान्मरणसमये महामोहोत्पादकत्वाच्च ११ । करका असंख्येयापकायरूपत्वात् । नन्वेवं जलमप्यसंख्येयजीप| मयं तस्मात् पानीयमप्यभक्ष्यं । सत्यं, पानीयेन विना न निर्वाहः स्यात् । करकादीन् बिना तु न कश्विदनिर्वाहः, ततस्त एवं नि| पिद्धाः, न पुनः पानीयं । तदपि जलं श्रावकस्य प्रासुकमेवोचितं १२ । सर्वाऽपि मृत्तिका खटिकादिका त्याज्या, न च भक्षणीया । | दृश्यन्ते हि मृत्तिकादिभक्षणव्यसनवतीनामबलानां पांडुरोग देहदौर्बल्याजीर्णश्वासक्षय रोगादयो महानर्था मरणान्ताः । सच्चित्तमृत्तिकाभक्षणे चासंख्येय पृथिवीकायविराधना भवति । यतः -- अद्दामलकपमाणे पुढवीकाए हवंति जे जीवा । ते पारेवयभित्ता जंबुद्दीवे न मायंति ॥ १ ॥ L एवं चेत्तर्हि लवणमप्यसंख्येयपृथिवीकायात्मकत्वाच्याज्यं । सत्यं, किं तु सर्वथा तत्यागे गृहस्थस्य न निर्वाहः । सचिनं तद्भीजने पुनस्त्यजन्ति । विवेकिनो हि भुञ्जाना लवणं चेद् गृहन्ति तदा प्रामुकमेव, न त्वितरत् । प्रामुकत्वं च तस्याग्न्यादिप्रवलशस्त्र - योगेनैव संभवति, न त्वन्यथा । पृथ्वीकायजीवानामसंख्येयत्वेनात्यन्तसूक्ष्मत्वात् । तथा च श्रीपञ्चमागे एकोनविंशतितमे शतके तृती योद्देशके निर्दिष्टोऽयमर्थः – “ वज्रमय्यां शिलायां स्वल्पपृथ्वीकायस्य वज्रलोष्टकेनैकविंशतिवारान पेपणे सति केचन जीवाःस्पृष्टाः | केचन नेति " । १३ । रजनीभोजनं बहुविधजीवसंपातसंभवेनैहिकपारलौकिकानेकदोषदुष्टत्वात् । यदभिहितं- Jain Education International For Personal & Private Use Only %% चरित्र | ॥ ६८ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy