SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ 3 5 रोगमार्गश्रमी मुक्त्वा स्वापश्च सकलां निशाम् । एवमादि परिहरेत् प्रमादाचरणं सुधीः ॥५॥ एने योगशास्त्रोक्ताः श्लोकाः सुगमाः स्वयमेवाभ्युद्याः । विवेकिना श्रावकेण जिनवचनानि विज्ञायैकाग्रमनसा परिपालनीयानि ।। 'महापरिग्गहाए'त्ति महापरिग्रहो लोभमूलः । स लोभो नरकदुःखदायकः । लोभी कथमपि न सन्तोषरोति तृप्तो न पुत्रैः सगरः कुचिकर्णो न गोधनैः । न धान्यस्तिलकश्रेष्ठी न नन्दः कनकोत्करैः॥१॥ लोभी तृप्यति नो घनैरपि धनैरिछन्नवं स्वं नवं, दर्गाद्यः पितृकल्पितानुजपदं किं वार्षभिर्नाच्छिदत्।। । अश्रान्तं सरितां शतैरपि भृतः किं वाऽम्बुधिः पूर्यते, किंवा शाम्यति काष्ठकोटिभिरपि ज्वालाकरालोऽनलः । महापरिग्रहे रतः मुभूमश्चक्रवर्ती पखंडाधिपतिः राज्यं करोति । तेनान्यदा चिन्तितं-" अन्ये चक्रवर्तिनः पखंडाधिपतहायः संजाताः । अहं तु द्वादशखंडाधिपो भवेयं "। इति चिन्तयित्वा सबलवाहनश्चर्मरत्नयोगाल्लवणसमुद्रं तरीतुं प्रविष्टः । तदा 21 तचर्मरत्नाधिष्ठातारः सहस्रदेवाः सन्ति, तैश्चिन्तितं- इदं चर्मरत्नं जले तरति तदस्मत्प्रभावः ? किं वा चक्राधीशप्रभावः ?' इत्थं | संचिन्त्य सुराः सर्वेपि चर्मरत्नं संत्यज्य पृथक् स्थिताः । तदा लोभानुभावाच्चक्रवर्तिचर्मरत्नं बुडितं । गजाश्वयोधादयः सर्वेपि not विपन्नाः । लोभाभिभूतश्चक्रवर्ती मृत्वा सप्तमनरके नारकोभूत् । तत्सर्वं महारंभमहापरिग्रहफलं ज्ञात्वा विवेकिभिर्महारंभा महापरि| ग्रहास्त्याज्याः । 'कुणिमाहारेणं ति ' मांसादिभक्षणे नरकपातः । आदिशब्ददादभक्ष्यद्रव्याणामनन्तकायिकानां च भक्षणं त्याज्यं । तत्राभक्ष्यद्रव्याणि द्वाविंशतिः । तथा चाहु: % ॐ For Personal Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy