SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १०। यंत्रपीडाकर्मणामेकत्र संबंधः स्यात् । यतः खंडनी पेषणी चुल्ली जलकुंभः प्रमार्जनी । पञ्च सूना गृहस्थस्य बध्यन्ते जंतवो हि यत्।।१॥ तिलयंत्रादेश्च महापातकहेतुत्वं लौकिका अपि वर्णयन्ति । तद्यथा... दशसूनासमश्चक्री दशचक्रिसमो ध्वजः । दशध्वजसमा वेश्या दशवेश्यासमो नृपः ॥१॥ ११ । निलो छनकर्मणि गवाश्वोष्ट्रादिपञ्चेन्द्रियकदर्थनादोपः १२। दवदानेऽनेकविधजीवकोटिवधदोषः १३ । सरोवरादिशोपे जलस्य तथा तद्गतानां मत्स्यादीनां जलप्लावितानां च पण्णां जीवनिकायानां विनाशः स्यात् १४ । असतीपोपे दास्यादिक्रियमारणदुष्कृतैः पापवृद्धिः स्यात् १५ । ततश्चैवंप्रकाराण्यन्यान्यपि खरकर्माणि निस्त्रिंशजनोचितानि कोट्टपालनगुप्तिपालनसीमपालनादीनि कर्माणि श्रावको वर्जयेत् । तथा वृषभान् दमय क्षेत्रं कृष षंढय वाजिनम् । दाक्षिण्याविषये पापोपदेशोऽयं न कल्प्यते ॥१॥ यंत्रलांगलशस्त्राग्निमुशलोदूखलादिकम् । दाक्षिण्याविषये हिंस्रं नार्पयेत् करुणापरः ॥२॥ कुतूहलाद्गीतनृत्यनाटकादिनिरीक्षणम् । कामशास्त्रोपसक्तस्य द्यूतमद्यादिसेवनम् ॥३॥ जलक्रांडादोलनादिविनोदो जन्तुयोधनम् । रिपोः सुतादिना वैरं भक्तस्त्रीदेशराट्कथा ॥४॥ १ चक्री तिलपीलकः । २ ध्वजः कलालः ।। in Edu m ating For Personel Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy