________________
*45
चरित्र
905445
तत्रांगारकर्मण्यग्नेः सर्वतोमुखशस्त्रत्वात् पण्णां जीवनिकायानां विराधना स्यात १ । वनकर्मणि वनस्पतेस्तदाश्रितत्रसादेश्च विराधना २ । शकटभाटककर्मणोभीरवाहकवृषभादेार्गस्थपड्जीवानां च विराधना इति ३-४ । स्फोटककमणि कणदलनादौवनस्पते -18 मिखननादौ पृथिव्या उभयत्र तद्गतत्रसादेश्च महाविराधना प्रवर्तते ५। आकरे दन्तचामरकेशाजित्रमाङ्गवाणिज्ये ग्राहकान् दृष्ट्वा लोभात् पुलिन्दादयस्तत्कालमेव हस्तिचमर्यादिवधेऽपि प्रवर्तन्ते ६ । लाक्षावाणिज्ये लाक्षाया बहुत्रसाकुलत्वात्तद्रसस्य च रुधिरभ्रमकारित्वात् धातकीत्वपुष्पयोमद्याङ्गत्वात्तत्कालस्य कृमिहेतुत्वात् गुलिकाया अनेकजन्तुपातघातादिना नाश्यत्वान्मनःशीलहरि| तालवज्रलेपानां च संपातिमबाह्यजन्तुघातकत्वात् तुंबरिकायाः पृथ्वीत्वादिना पडवासस्य त्रसाकुलत्वात् टंकणक्षारसाक्षारादेबाह्यजीव-12 विनाशकत्वाच महानेव दोपः । लाक्षादेर्दष्टत्वं मनुस्मृतावप्युक्तं. सद्यः पतति मांसेन लाक्षया लवणेन च । व्यहेण शुद्री भवति ब्राह्मणः क्षीरविक्रयात् ॥१॥
७। रसवाणिज्ये मध्वादा जन्तुघातोद्भवत्वादनेकजन्तुसंमृर्छनादिदोषः । दुग्धादौ संपातिमजन्तुविराधना । दिनद्रयातीते दनि जन्तुसंमृर्छनापि प्रागुक्तयुक्त्या ८ । केशवाणिज्ये द्विपदचतुष्पदानां नित्यं पारवश्यं वधबन्धक्षुत्पिपासादिपीडादोषः ९। |विषवाणिज्ये भंगिकावत्सनागादेहरितालसोमलक्षारादेश्च विपशवादीनां च जीवितघ्नत्वं प्रतीतमेव । दृश्यन्ते हि जलाद्रहरितालेन | सहसैव विपद्यमाना मक्षिकादयः । सोमलक्षारादिना भक्षितेन बालादयोऽपि नियन्ते । विषादिवाणिज्यं शास्त्रेऽपि निषिद्धमस्ति । यतः
कन्याविक्रयिणश्चैव रसविक्रयिणस्तथा । विषविक्रयिणश्चैव नरा नरकगामिनः ॥१॥
॥६६॥
05
For Personal & Private Use Only
sain Education Premations
H
a inelibrary.org