________________
तिलेक्षुसर्षपैरैंडफलयंत्रादिपीडनम् । दलतैलस्य विकृतियंत्रपीडा प्रकीर्तितां ॥ १० ॥ तिलेक्षुसर्षपैरं डफलानि तेषां पीलनं दलतैलविधानं जलयंत्रवाहनादिकं यंत्र पीडनकर्म घरट्टादिकर्माणि ११ ।
नासावेधोऽङ्कनमुष्कच्छेदनं पृष्ठिगालनम् । गोकर्णकंबलच्छेदो निछनमुदीरितम् ॥ ११ ॥ गवादिपशूनां कर्णकंबलंगपुच्छच्छेदनासावेधाङ्कनकर्णस्फोटनषंढन त्वग्दाहादिकं उष् पृष्ठिगालनादिकं निलौंछनं कर्म नरकदुःखदायकं वर्जनीयमेवेति ॥ १२ ॥
शारिकाशुकमार्जारश्वकुर्कुटकलापिनाम् । पोषं दासस्य वित्तार्थमसतीपोषणं विदुः ॥ १२ ॥ शारिकाशुकमार्जारकुर्कुरकुर्कुटमर्कटमयूरकुरंगशुकरादेः पोषोऽसतीपोषः । केचन हि दासीपोषणं कुर्वन्ति । तत्संबन्धि भाटकं गृह्णन्ति गोल्लदेशे १३ ।
व्यसनात् पुण्यबुध्ध्या वा दवदानं भवेद् द्विधा । सरःशोषः सरस्यंबुह्रदादेरंबु संप्लवः ॥ १३ ॥
गहनदाहे सति मिल्लादयः सुखेन चरन्ति । जीर्णतॄणदाहे वा नवतृणांकुरो भेदाद् गवादयश्चरन्ति । यद्वा दग्धे क्षेत्रे सस्यसंपत्तिवृद्धिः स्यात् इत्यादिपुण्यबुध्ध्या कौतुकेनारण्येऽग्निप्रज्वालनं दवदानं । श्रूयते हि मरणकाले भिल्लादयो मणन्ति यथेयन्तो वास्तव धर्मार्थ करणीया इति १४ । तथा सरोवरद्रहतडागादिशोषः सारणीकर्षणेन धान्यादिवपनार्थं क्रियते स सरःशोषः । तत्रास्वातं सरः स्वातं तु तडागादि इत्यनयोर्भेदः १५ । एतेषां पञ्चदशकमीदानानामाचरणेन बहुदोषापत्तिः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org