________________
*%A
चरित्र
* यवचणकगोधूमकरड्यादेः सक्तुदालिपिष्टतंदुलकरणादिः खनिसरःकूपायर्थ भूखननहलखेटनपाषाणघटनादिकं तत् स्फोट-2 कर्म ५ । एतानि पञ्चकर्माणि त्याज्यानि ।
अथ पञ्च वाणिज्यकर्माण्याहदन्तकेशनखास्थित्वक्रोमग्रहणमाकरे । त्रसांगस्य वणिज्यार्थ दन्तवाणिज्यमुच्यते ॥६॥
तत्राकरे दन्तिदन्तघूकव्याघ्रादिनखहंसादिरोममृगादिचर्मचामरशंखभृगशुक्तिकपर्दकस्तूरीहिंसकादिवसांगग्रहणं दन्तवाणिज्यं । एमिापारैर्यजीवनं तद्दन्तवाणिज्यमुच्यते ६।
लाक्षामनःशीलनीलीधातकीटंकणादिनः । विक्रयः पापसदनं लाक्षावाणिज्यमुच्यते ॥७॥ लाक्षाधातकीनीलीमनःशीलहरितालवज्रलेपतुवरिकापटवासटंकणसाबुकक्षारादिविक्रयो लाक्षावाणिज्यमुच्यते ७।
नवनीतवसाक्षौद्रमद्यप्रभृतिविक्रयः। द्विपाच्चतुष्पाद्विक्रयो वाणिज्यं रसकेशयोः॥८॥
मधुमद्यमांसम्रक्षणवसातेलदधिदुग्धधृतादिविक्रयो रसवाणिज्यमुच्यते ८ । तथा दासादिनृणां अश्वगोतिरश्वां च विक्रयः केशवाणिज्यमुच्यते ९।
विषास्त्रहलयंत्रायोहरितालादिवस्तुनः। विक्रयो जीवितनस्य विषवाणिज्यमुच्यते ॥९॥
विषनागफीणवत्सनागसोमलशस्त्रकुशीकुद्दालादिलोहहलादिविक्रयो विषवाणिज्यमुच्यते १० । एतानि पञ्च वाणिज्यकर्माणि |5|| | सुश्रावको वर्जयेत् इति ।
RKAR105%
ACCUSS
For Personal & Private Use Only
www.jainelibrary.org