________________
*
२०MCACANCERCA
*
तत्र प्रथममंगारकर्म यथाअंगारभ्राष्ट्रकरणं कुंभायःस्वर्णकारिता । ठठारश्चेष्टिकापाकावृत्तिह्यंगारजीविका ॥१॥ अंगारकर्म नवांगारकरणं भ्राष्ट्रकरणं इष्टिकापाकादिपाकः कुंभकारायस्कारस्वर्णकाराः चूर्णकारा इष्टिकापाचकास्तेषां वृत्तिरंगाराजीविका तत्कर्म अंगारकर्मेति १।।
छिन्नाछिन्नवनपत्रप्रसूनफलविक्रयः। कणानां दलनं चैषा वृत्तिश्च वनजीविका ॥ २ ॥
छिनाछिन्नवनस्पतिपत्रपुष्पकन्दमूलफलतृणकाष्ठकंबावंशादेविक्रयो वनकच्छादिकरणं कणानां दलनं चैभिः कर्मभिर्यदाजीविका क्रियते तद्वनकर्म २।
शकटानां तदंगानां घटनं खेटनं तथा । विक्रयश्चेति शकटाजीविका परिकीर्तिता ॥३॥ . शकटानां शकटांगानां च घटनखेटनविक्रयास्तैर्यजीवनं तच्छकटकर्म ३ । शकटोक्षलुलायोष्ट्रखराश्वतरवाजिनाम् । भारस्य वाहनाद् वृत्तेर्भवेद्भाटकजीविका ॥४॥
शकटवृषभकरभमहिपखरवेसराश्वादेर्भाटकग्रहणेन भारवाहनं तद्भाटककर्म ४ । सरःकूपादिखननं शिलाकुट्टनकर्मभिः । पृथिव्यारंभसंभूतैर्जीवनं स्फोटर्जीविका ॥५॥
*
*
*
*
*
*
Education internatione
For Personal Private Use Only