SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ र्श्व० ६३ ॥ |यित्वा वस्त्राभरणादिकं दत्वा स्वालये विसर्जयामास । तेषां मध्ये बान्धवौ न दृष्टौ । द्वितीयदिने इभ्यान् सकलानिमंत्र्य भोजयित्वा विसर्जयति । तेषां मध्येऽपि स्वकीयौ बान्धवौ न दृष्टौ । तृतीयदिने सर्वान् वस्त्रग्रहान् निमंत्र्य भोजयति । तेषां मध्येऽपि सहोदरौ न पश्यति । चतुर्थदिने रत्नपरीक्षकानिमंत्र्य भोजयति । तेषां मध्ये धनमित्रसहोदरोऽग्रेसरः सालंकारः प्राप्तः । तस्य स्नेहपूर्वकं सोत्कं | ठमालिंगनपूर्वकं मिलितः 1 तमाकार्य लेखः प्रदत्तः । तं लेखं वाचयित्वा स संतुष्टः कथयति - ' पितुलेखः प्रमाणं । तत्र गम्यते । पितृपादा नमस्त्रियन्ते' । ततः सर्वान् भक्तिपूर्व भोजयित्वा विसर्जयति । एकान्ते मिलितौ तौ भ्रातरावन्योऽन्यं कुशलोदन्तं पृच्छतः । स्नेहालापं कुरुतः । अन्योऽन्यं धनपालस्योदन्तं पृच्छतः । कोऽपि धनपालस्य शुद्धिं नो वेत्ति । इति वार्तां कृत्वा स्वकीयकार्यपरायणौ | संजातौ । पञ्चमे दिने भारवाहकाः सर्वेऽप्यामंत्रिता भोजिताश्च । तेषां मध्ये दुःखितो दरिद्ररूपो धनपालबान्धवः कृशशरीरो दृष्टः ! स समालिंगनपूर्वकं पृष्टः - ' त्वं कथमीदृशो दृश्यसे १ तव लक्ष्मीः क्व गता ? ' । ततस्तेनोक्तं - " मया प्रमादवशाद्वेश्यालये लक्ष्मीर्भुक्ता । मदीयानि रत्नानि वेश्या गृहीतानि । तेनैव कारणेनाहं दुःखी जातः " । तदा ज्येष्ठबन्धुना धनदेवेनोक्तं - " बान्धव शृणु । शास्त्रेऽपि प्रमादो निवारितोऽस्ति । यतः प्रमादः परमद्वेषी प्रमादः परमो रिपुः । प्रमादो मुक्तिपूर्दस्युः प्रमादो नरकायनम् ॥ १ ॥ ' " ततस्तस्यापि पितृप्रहितलेखं समर्पयति । स लेखं वाचयित्वा निःश्वासं मुक्त्वा वदति स्म - ' अहमशंबलः कथमागां ? ' । | तदा धनदेवेने प्रोक्तं- ' त्वरितमागच्छ । शंबलमहं दास्ये ' । इत्युक्त्वा स्वकार्ये लग्नः । ततो धनमित्रः परीक्षकगृहे गतः । तत्र स्वमयाणवार्तां कथयित्वा रत्नानि त्रीण्यपि मार्गयति । ततस्तेन परीक्षकेण लेखकं कृत्वा कथितं 'एतद् भुक्तं । एतद् गृहीतं । एतद्दतं । Jain Education International For Personal & Private Use Only चरित्र ॥ ६३ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy