________________
'अद्य किश्चिद् भुक्तं न वा १' । तेनोक्तं- 'कुतः किं भक्षयामि ?' । तदा तैरनुकंपया भोजितः । द्रमकवत् सोऽपि भारवाहकैः सह भ्रम - ति । सोऽपि धनपालो मारवाहको जातः दुःखेनोदरपूरणं करोति । यतः -
मानं मुञ्चति सेवते ऽन्त्यजनं दीनं वचो भाषते कृत्याकृत्यविवेकमाश्रयति नो नोऽपेक्षते सत्कृतिम् । भंडत्वं विघाति नर्तनकलाभ्यासः समभ्यस्यते दुष्पूरोदरपूरणव्यतिकरे किं किं न कुर्याज्जनः ॥ १ ॥ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वाञ्छन् देशमनातपं विधिवशाद्विल्वस्य मूलं गतः । तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः ॥ २ ॥
स नीरस्थाने तटाके कूपे च भुंक्ते । आपणे स्वपिति । इत्थं स महादुःखी जातः । स मनसि चिन्तयति - “ एतत्प्रमादफलं । मैत्र ज्येष्ठबन्धुर्धनदेवः क्रयाणकशकटानि भृतानि बहूनि प्रेषयति । धनदेवस्य कीर्तिः सर्वत्र प्रसृता " । एवं तेषां त्रयाणां बन्धूनां तत्र द्वादश वर्षा गताः ।
इतश्च पित्रा तेषां त्रयाणामाकारणार्थं लेखः प्रेषितः । स लेखो ज्येष्ठबन्धोः करे प्राप्तः । लेखो वाचितः । प्रमोदो जातः । तेन धनदेवेन चिन्तितं - ' अथ तत्र गमनं क्रियते । पितृपादा वन्द्यन्ते । परमुभयोर्भ्रात्रोः शुद्धिः कथं ज्ञास्यते ? ' इति विचिन्त्य पुरमध्ये सर्वत्र विलोकितम् परं तयोः शुद्धिर्न जाता । तदा तेन चिन्तितं -- 'सर्वेषां महाजनानां भोजनं कारयामि, तदा तयोः शुद्धिर्ज्ञास्यते । इति विमृश्य नानाविधपक्वान्नादि सर्वसामग्री कारिता । ततः प्रथमदिवसे नृपं सकलराज लोकसहितं निमंत्र्य तान् भक्तिपूर्वकं भोज
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org