SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ पाश्व० चरित्र ६२॥ | नि सन्ति । तयोक्तं--'मम दर्शयतु । तेन दर्शितानि । सा सहर्षा जाता। सा तानि रत्नानि गृहीत्वा मुख चुंबति हृदये समालिंगति । ततः साऽवक्-"स्वामिन् मद् ? स्थापयामि । कार्ये उत्पन्ने गृहीतव्यानि । स्वामिन्निदं गृहं तवैव । अहमपि त्वदीया । इदं परिकरादिकं सर्व त्वदायत्तं । अत्रैव नितु । नवं वयः सफलं करोतु । नाटकं विलोकयतु । गीतगानादिकं शृणोतु । कामभोगान् भुनक्तु । पुनरपीदं मनुष्यजन्म व ? । इदमेव मनुष्यजन्मफलं" । इति तस्या वचनैः स मोहं प्राप्तस्तत्रैव स्थितस्तथा सह पञ्च विधान् वैषयिककामभोगान् नित्यमेव भुनक्ति । आभरणानि वखादीनि च तस्याः पूरयति । अल्पनापि कालेन सर्वमपि रत्न, । तेन व्ययितं । ततः स तया गृहान्निष्कासितः। पुरमध्ये चलिनः । विटपुरुषः संमुखो मिलितः । तस्याग्रे कथितं-'मुपितोऽहं वेश्यया'। विटनरेणोक्तं-त्वदीयं कार्य करोमि चेद्वस्त्राणि त्वदीयानि मम ददासि । तेन तत्सर्व प्रतिपन्न। पुनर्विटेनोक्तं-'पूर्व | वस्त्राणि देहि । तेनाम्बराणि दत्तानि । विटनरेण समं पुनस्तस्याः पणांगनाया गृहे जगाम । विटेन तस्या उक्तं-'त्वया कथमयं विप्रतारितः १ किं गृहीतं?'। तयोक्तं-'लेखकं विलोकयतु एतद्दत्तं एतच्च विलसितं एकोऽपि द्रम्मको न वर्धितः' इत्युक्त्वा पुनरपि गृहानिर्वासितः । नगरमध्ये व्यग्रचितः शून्यो वस्त्ररहितो दरिद्ररूप एकाकी निराशो जातः सर्वत्र भ्रमति । भोजनसमयो जातः परं किं भक्ष्यते । यतः__ अन्नं नास्त्युदकं नास्ति नास्ति मुद्गयुगंधरी । शाकं न लवणं नापि तन्नास्ति यच्च भु यते ॥१॥ किमपि भक्ष्यं नास्ति । इतस्ततो भ्रमति तदा कुत्रापि भारवाहका भुञ्जन्ति । तैस्तथाविधो दृष्टः । पृष्टं च–'त्वं कु - १ कुतः स्थानात्समागतः ?'धनपालेनोक्तं-'मया प्रमादवशाद्रत्नानि निर्गमितानि' इत्युक्त्वा यथास्थितं सर्वमचीकथत् । तैरुक्तं en Education International For Personel Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy