SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ चरित्र * पूजयति । अन्यान्यपि क्रपाणकवस्तूनि गृह्णाति विक्रीणाति च । ततो महाधनवान् व्यवहारी जातः । तस्य सर्वत्र राजद्वारे जनेषु || च प्रसिद्धिर्जाता । कीर्तिर्विस्तृता ।। ४ अथ धनमित्रो द्वितीयो बान्धवो भोजनानन्तरं मुहूर्तान्तरेण तत्र पुरमध्ये प्रविष्टः । क्रमेण पुरे ब्रजन रत्नपरीक्षकापणे गतः ।। ताक्टन रत्नपरीक्षकेण नरेण तमदृष्टपूर्वसद्भाग्यवन्तमागच्छन्तं वीक्ष्याभ्युत्थानपूर्वकं मानं दत्वा पृष्ट-'सज्जनशेखरोत्सनर ! कुतः समागतः १ क निवासः १ किमर्थमत्रागमनं ?' तेनोक्तं-'अहं व्यापारी देशान्तरादागतः । ततो रत्नपरीक्षकोऽब्रवीत्-'अद्य मम समन्दिरे समागच्छ' इत्युक्त्वा बहुमानं दत्वा निजगृहे नीतः । स्नानमज्जनभोजनभक्त्यादिकं कृत्वा विलेपनतिलकतांबूलादिकं दत्वा & पृष्टं-'भोः सत्पुरुष के व्यापार करोषि ?'। ततो धनमित्रेणोक्तं--'येन लाभो भविष्यति तं व्यापारं करिष्ये'। पुनः परीक्षकेWणोक्तं-'त्वत्पार्धे कियत्प्रमाणं द्रव्यमस्ति ? ' तेनोक्तं-"मत्पावे सपादकोटिमूल्यानि त्रीणि रत्नानि सन्ति, देशोनाश्चतस्रः को टयः सन्ति । तेन द्रव्येण व्यापारं करिष्ये "। पुनरपि रत्नपरीक्षकेणोक्त--'वरं, परं मदीयां बुद्धिं कुरु । धनभित्रणोदितं-कध्यता' । सोऽवक्-"त्वं त्वदीयानि रत्नानि मम कीचकेन देहि । तव कीचकं यथोक्तं दास्यामि । तव लाभो भविष्यति । यदा || तव कार्य भावि तदा तान्येव रत्नानि ग्राह्याणि" । तेन आमिति कथयित्वा त्रीण्यपि रत्नानि तस्य दत्तानि । प्रतिदिनं तस्य यथोक्तं | कीचकं ददाति । स तु प्रतिदिन गृह्णन् सुखी जातः। स्वेच्छया पुरमध्ये याति क्रीडति अंक्त च । यतः भन्नाशस्य करंडपीडिततनोग्लानेन्द्रियस्य क्षुधा कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः । ** * in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy