SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कथितं च तेन ज्येष्ठेन-'अहं पुरादहिः पथि स्थितोऽस्मि । युवा. + - गन्तव्यं । इति कथयन् पितुः पादौ प्रणम्य पुरावहिर्गत्वा स्थितः। द्वितीयो धनमित्रो बन्धुः क्षणमेकं प्रतीक्ष्य शीघ्रं चलितः, पथि धनदेवस्य च मिलितः । तृतीयस्तु भोजनं कृत्वा क्षणमेकं विमृश्य गृहाच्चलितः । मागें त्रयोऽपि मिलिताः । देशान्तरमार्गसंमुखं चलिताः । ते त्रयोऽपि क्षेमेण सिंहलद्वीपाभिधे द्वीपे कुसुमपुरपरिसरखने प्राप्ताः । तैविमुष्टं-" अत्रैव नगरे व्यापारः विधीयते । अग्रे गमनेन किं ? यतः प्राप्तव्यमर्थ लभते मनुष्यो देवोऽपि तं लंघयितु न शक्तः। तस्मान्न शोको न च विस्मयो मे यदस्मदीयं न हि तत्परेषाम् ॥१॥ . अतः कारणदत्रैव नगरे व्यवह्रियते । प्रथममत्र वने भुज्यते " । इति निश्चित ते तत्र भोजनं चक्रुः ।। धनदेवो भोजनं कृत्वा शीघ्रमेव पुरमध्ये प्रविष्टः । तब चतुष्पथे बहवो व्यवहारिणः किञ्चित्तत्कालप्रवहणागतं वस्तु गृह्णन्ति स्म । तदा तत्र धनदेवः समेतः । सर्वजनान् शीघं ननाम । यथोचितं विनयं चकार । तं तथाविधं सल्लक्षणोपेतं सदस्खयुक्तं दृष्ट्वा इभ्या मुदिताश्चिन्तयन्तिकोऽप्ययमपूर्वो देशान्तरव्यापारी सभाग्यः सज्जनो दृश्यते इति विमृश्य तैः प्रोक्तं—'अस्माभिरिदं वस्तु गृह्यते । पंक्त्यागतं यूयमपि गृहीत'। तदा धनदेवोऽप्युवाच--'यादृशो विभागः श्रीमतां तादृशो ममापि विभागः । ततः कस्यापि हट्टं भाटकेन गृहीत्वा तत् | ऋयाणकं गृहीत्वा तत्र स्थापितं । स्तोकैरेव वासरैस्तद्वस्तुऋयाणक महायं जातं । देशान्तरागतव्यापारिणां क्रयाणकं दत्वा | ऋयाणकं विक्रीतं । तत्र बहुक्रयाणकस्य लाभो जातः । तेन लाभद्रव्येणान्यान्यपि वस्तूनि व्यवहरति । स्वरत्नानि त्रिकालं * Bain Educ a tional For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy