________________
अबन्धूनामसौ बन्धुरसखीनामसौ सखा । अनाथानामसौ नाथो धर्मो विश्वैकवत्सलः ॥ २ ॥ अतो हेतोर्धर्मकुटुंबस्य सेवा विधेया । यतः
धर्मस्य दया जननी जनकः किल कुशलकर्मविनियोगः । श्रद्धा च वल्लभेयं सुखानि निखिलान्यपत्यानि ॥३॥ संघश्चतुर्विधो बिंबं सुचैत्यं चागमोऽर्हताम् । सप्ताप्येतानि धर्मस्य क्षेत्रकाणि विदुर्बुधाः ॥ ४ ॥ गुरूणां विनीतैर्भाव्यं कर्तव्या साधुसंगतिः । विवेके तु मनो धार्यं न त्याज्यं सत्त्वमुत्तमम् ॥ ५ ॥ विनयत्रश्च विवेकश्च सुसंगश्च सुसत्ता । लौकिका अप्यमी श्लाध्या गुणा लोकोत्तराः स्फुटम् ॥६॥
अहो कुबेर त्वं नृपपुत्रोऽश्वारोहणं कुरुषे । सेवकास्तव सेवां कुर्वन्ति । तत्र को हेतुः १ धर्म एव हेतुः । अतः कारणात्री| वादयः पदार्थाः सन्ति । तदा तद्गुरुवाक्यश्रवणात् स कुवेरः संबुद्धः समुत्थाय कृतोत्तरासंगः प्रदक्षिणात्रयं दत्वा गुरुचरणांबुजं नमस्कृत्य प्राञ्जलिरिदमुवाच - - ' भगवन् भवद्भिर्यत् कथितं तत्प्रमाणं । अथ धर्मतत्त्वं मम कथयन्तु ' । ततो गुरख ऊचुः - " कुबेर त्वं धन्यः । धर्मतत्त्वं शृणु । उक्तं च
Jain Education International
यथा तुर्भिः कनकं परक्ष्यिते निघर्षणच्छेदनतापताडनैः ।
तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपोद्यागुणैः ॥ १ ॥
For Personal & Private Use Only
৬:::::++++++
elibrary.org