SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ९॥ एगविहदुविहतिविहा चउविहा पंचछव्विहा जीवा । चेयणतसइयरेहिं वेयगईकरणका एहिं ॥ १ ॥ बालवयसि यत्कृतं भुक्तं च तद्वृद्धवयसि जीवाभावे कथं स्मर्यते जीवस्यैव स्मर्यते, न त्वचेतनानां पृथिव्यादिपदार्थानां किञ्चित् स्मर्यते । यत्र जीवस्तंत्र धर्माधर्मौ । यथोक्तधर्माधर्मयोर्भोक्ता जीवश्चैतन्यलक्षणोऽऽवमन्तव्यः । यथा भूमिगतं बीजमंकुरादनुमीयते तथा पूर्वभव शुभाशुभं सुखदुःखादनुमीयते । तथाहि-- एके विचित्रमणिकुट्टिमतले सच्चित्रशालिकारम्ये सद्गन्धवासिते दिव्योल्लोच| युक्ते सौधे सुखिनो वसन्ति । एके पुनर्मूषकसर्पनकुलधूलिनिकरसमाकीर्णे दुःस्थिता गृहक्लेशयुक्ता दृश्यन्ते । एके मिष्टान्नपक्वान्नद्रा| क्षापानादिभोजनाः कर्पूरमिश्रतांबूलमुखाः सुखं भुञ्जन्ति । अन्ये परमुखं वीक्षमाणाः परसेवां कुर्वन्तो बुभुक्षाक्षामकुक्षयः कदनमपि | कापि भुञ्जते । एकेऽप्युदारशृंगाराः सारमाल्यविलेपना दिव्ययानपरिवारा गायनकृतगी गानाः स्मरमूर्तयः क्रीडन्ति । अन्येतु | दीनवदना घनस्वजनवर्जिता दुर्दशा दुर्गन्धवदनदेहा नारका इत्र दुःखिनो दृश्यन्ते । एके तु तूलिकासु सुगीतैः वीणानादमनोहरै| र्लब्धनिद्रासुखाः प्रातर्भट्टजयजयारवैर्जाग्रति । अन्ये तु जंबूकोलूकवरध्वनिं शृणवन्त ऊपरावनौ स्वपित्वा मत्कुणचञ्चुपुटैर्भक्ष्यमाणा गतनिद्राः स्युः । एतत्प्रत्यक्षं धर्माधर्मफलं वीक्ष्यानन्तशर्मकृते कष्टसाध्योऽपि धर्मः कार्यः । यच्च त्वया कथितं कष्टकरणान सौख्यं तदपि मृषा, कटुकौषधयोगात् किमारोग्यं न जायते १ धर्मोद्यतस्य जीवस्य स्वर्गादप्यधिकं सुखं भवेत् । तथा च येन धर्मेण चारुकुलरूपबलज्ञानवनयशांसि प्राप्यन्ते । अन्यच्च Jain Education International सूर्याचन्दमसावेतौ विश्वोपकृतिहेतवे । उदयेते जगत्यस्मिन्नूनं धर्मस्य शासनात् ॥ १ ॥ For Personal & Private Use Only चरित्र ॥ ५९ ॥ jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy