SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ज्ञानावरणीयकर्म दर्शनावरणीयकर्म वेदनीयकर्म अन्तरायकर्म एतेषां चतुर्णां कर्मणां त्रिंशत् त्रिंशत् कोटीकोटयः सागरोपमाणामुत्कृष्टा स्थितिः । मोहनीयकर्मणः सप्ततिः कोटीकोट्यः सागराणामुत्कृष्टा स्थितिः । नामकर्मगोत्रकर्मणोः प्रत्येकं विंशतिः कोटी कोट्य उत्कृष्टा स्थितिः । आयुः कर्मणः त्रयस्त्रिंशत्सागराणां स्थितिः । वेदनीयस्य कर्मणो जघन्या स्थितिर्द्वादशमुहूर्ता । नामकर्मगोत्रकर्मणोर्जघन्या स्थितिरष्टान्तर्मुहूर्ता | शेषकर्मणां स्थितिर्जघन्यैकांतर्मुहूर्ता । तेषां कर्मणां ग्रन्थि यदा भिनत्ति तदा जीवः सम्यक्त्वं लभते । सम्यक्त्वप्रात्या जिनधर्मे लब्धास्वादो मनः शनैः शनैः कुरुते । तदा गृहस्थधर्मं यतिधर्मं च कुर्वन् धौतकर्ममलो भवेत् । ततः परमं पदं लभते । अतः कारणाद् भविकैः धर्मे मतिः कार्या । कुबेरस्तद्गुरुवचः श्रुत्वा दर्पात्स्फुरदोष्ठपुटो जगौ – “ आचार्यं इयतीं वेलां कंठशोषः कृतः स वृथैत्र । सर्वमेतदसंबद्ध तवोदितं । यद्धर्मकर्मादिगुणौघाः स्थाप्यन्ते, तन्मिथ्या खकुसु प्रवत् । स एवात्मा नास्ति । निराधारा गुणा हताः । यद्यत्प्रत्यक्षं दृश्यते घटपटवत्, तदेव सत्यं । जीवस्त्विन्द्रियग्राह्यो नैव, तस्मान्नास्ति जीवः । जीवाभावे धर्मोऽपि नास्ति । यथा मृत्पिंडेन घट: संजाघटीति तथा पृथिव्यप्तेजोवाय्वाकाशपञ्चभूत पदार्थर्देहपिंडो जातः । कियत्यपि गते काले त एव पञ्चभूतपदार्थाः स्वस्वपदार्थवन्तर्भवन्ति । तस्मान्नास्त्येव जीवः । किं च कष्टरूपात्तपसः सुखं कथं भवेत् ? । कष्टेन हि कष्टफलमेव स्यात् । तथा च जीवाभावे धर्मस्याप्यभावः । निमित्ताभावे नैमित्तिकस्याप्यभावः" । ततो मुनिः शान्तात्मा जगाद - "देवानां प्रिय शृणु, युक्तिवचनविरुद्धं मावद । मम माता वन्ध्या तद्वत्वयोज्यते जीवाभावः तत्सर्वमघटं । ज्ञानं प्रमाणं, न चेन्द्रियगोचरः । चर्मचक्षुषामात्मा नेन्द्रियगोचरः । परमज्ञानचक्षुषां ज्ञानगोचरः । पृथिव्यादिपञ्चपदार्था अचेतनरूपाः । चेतनालक्षणो जीवः । यतः - Jain Education International For Personal & Private Use Only %%%%**** www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy