SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ राश्व० ५७॥! स शशीव कलाकलापसंपन्नः कुवलये हर्ष व्यधात् । क्रमात्त वज्रनाभ उज्ज्वलं यौवनं प्राप । तस्य महद्भुजाबलं प्रससार । स संगी तशास्त्रशस्त्रविनोंदेन काव्यकथास्वजनगोष्ठीरसेन च क्रीडन् कालं निनाय । अन्यदा वंगदेशपतिश्चन्द्रकान्तो निजांगजां वज्रनाभाय चरित्र वाप्रदातुं सन्मुखमढोकयन् । कुमारोऽपि तां विजयाभिधां कन्यामुवाह । स तया सह पञ्चविधविषयसुखानि बुभुजे।। ___अन्यदा कुमारस्य मातुलनन्दनः कुबेराख्यः स्वपितृभ्यां रुष्टो वज्रनाभस्यान्तिके आगत्य स्थितः । स च नास्तिकवादी || * कुमारं धर्म सादरं वीक्ष्यावादीत्-" अहो मुग्ध किमेपा कष्टकल्पना ? केन त्वं विप्रतारितोऽसि, यद्धर्मात्सद्गतिर्भवेत् । अतः कार-1 मणान्मनोवचःकायानामीप्सितं पूरय" । राजकुमारस्तदुक्तं निशम्य तूणीं दध्यौ-"कुग्रहग्रथिलैः सह संवादो मतिभ्रंशाय भवति । है। अत एनं कुतोऽपि ज्ञानितो बोधयिष्यामि" । इति विचिन्त्य स्थितः । एकदा लोकचन्द्रसूरि रिमुनिपरिवारपरिवृतो बहिरशोक वने समक्सृतः । तस्यागमनं श्रुत्वा बहवः पौरा अभिवन्दितुं जग्मुः । कुमारोऽपि कुवेरसहितो मुनीश्वरं सूरिवरं वन्दितुमगच्छत् ।। कुमारो विधिना शुद्धभावेन मुनीश्वरं ववन्दे । कुमारस्योपरोधेन कुवेरोऽपि तं ननाम । तत्र कुमारप्रमुखेषु जनेषु यथास्थानमुपविष्टेषु | | धर्मोद्यानसुधोपमा धर्मदेशनां प्रारेभे । तथाहि- . इह प्रकृत्या स्वच्छोऽपि जीवः कर्ममलावृतः । लभते विविधं दुःखं भ्राम्यन् गतिचतुष्टये ॥१॥ * अस्य व्याख्या स्वच्छोऽपि जीवः कर्ममलावृतो गतिचतुष्टये भ्राम्यन् विविधानि दुःखानि लभते । तच्च कर्माष्टधा-ज्ञानावरणीयं दर्शनावरणीयं वेद नीयं मोहनीयं नामकर्म गोत्रकर्म आयुःकर्म अन्तरायकर्म चेति । तत्र ज्ञानं पञ्चधा–मतिज्ञानं श्रुतज्ञानं ॥ ५७॥ अवधिज्ञानं मनःपर्यवज्ञानं केवलज्ञानं चेति । तेषां ज्ञानानामावरणं विधीयते येन तज्ज्ञानावरणं कर्म । दर्शनावरणं कर्म नवधा *** **** * In Education international For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy