SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः सर्गः। प्रणम्य पार्थाधिपतिं जिनेन्द्रं दशावतारं भुवनैकभानुम् | कथाप्रबन्धैः सुरसैर्मुदाऽहं वदामि सर्ग सकलं तृतीयम् ॥१॥ इतश्चास्मिन् जंबूद्वीपे प्रत्यग्विदेहविभूषणे सुगन्धिविजये शुभंकरानाम्नी पुरी कल्पद्रमसमै तनयुक्ताऽप्सरस्तुल्यनारीभिर्मनोरमा देवमन्दिरैः शोभिता स्वर्गपुरीव राजते । तत्राद्भुतभाग्यभूः सकलगुणसागरो वीर्यनामा नृपोऽभवत् । यः स्वकी | विश्वं धवलयन् जनान् रञ्जयामास । यं सर्वेऽपि राजानो नमस्कुर्वन्ति । येन सर्वेऽप्यरयो वशीकृताः । यस्मै प्रजा सकलापि | सेवते । यस्मात् कल्याणपरंपरा वृद्धि प्रामोति । यस्य गुणा देशे देशे जनीयन्ते । यस्मिन् राज्यं शासति ईतयो न पराभवन्ति । स वज्रवीर्यो नृपतिरेकच्छत्रं प्राज्यं साम्राज्यं पालयामास । तस्यापरा लक्ष्मीरिव लक्ष्मीवतीनाम्नी पट्टराज्ञी लजाविनयसाधुत्वशीलप्रमुखैर्विविधैर्गुणैः सदा शुशुभे । इतः किरणवेगस्य जीवो देवभवाच्च्युत्वा तस्या लक्ष्मीवतीदेव्याः कुक्षिसरस्तीरे मरालबदवातरत् । सा चोत्तमस्वमसूचितं सुसमये धरणीभूषणं विश्वजननयनानन्ददायकं सुतमसूत । पित्रा महोत्सवः कृतः। ततो वर्धापनमहोत्सवे कृते स्वजनान् भोजयित्वा स्वजनसमक्षं वज्रनाभ इति स्पष्टं नाम निर्ममे । पित्रोरानन्देन समं पुण्यपुद्गलैर्वर्धिष्णुः स वज्रनाभः कौमार्य सदालाः कला ग्राहितः। ROMACARAKiract in Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy