SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ यस्य गृहिणोऽपि तवेदृशी मतिः । तब साहसेन तुष्टोऽस्मि । किश्चिद्याचस्व" । इति श्रुत्वा स ध्यानस्थो यावनोत्तरं ददौ तावत् | | दृतं सुरोऽपि जगौ--" भो भद्र यद्यपि त्वं निरीहोऽसि तथापि त्वं मम वचसा मथुरायां तव वासगृहे गच्छ । प्राग्वत्वं महर्द्धिको || चरित्र भावी" | इत्युक्त्वा तं क्षमयित्वा सुरोऽदृष्टो जातः । ततः श्रेष्ठी कायोत्सर्ग पारयित्वा मनसि चिन्तितवान्–'मम धनेन किं ? परंतु पुरातनं स्वस्य कार्पण्यमलं क्षालयामि'। इति विचिन्त्य मथुरायां स्वकीये गृहे गतः । एकदा निखातद्रव्यस्थानानि विलोकयति +तावत्तत्र निधानेपु तत्सर्व द्रव्यमीक्षितं । देशान्तरगतमपि द्रव्यं दिने दिने आयाति यत्तु भक्षितं जनैस्तदप्यासादितं । एवं च मतस्य पुनरपि पट्पष्टिकोटयो मिलिताः । सद्यः शुभभावकृतानि पुण्यानि फलन्ति । तत्र श्रेष्ठिना धनसारेणोत्तुंगशिखरो जिनप्रा मादः कारितः । तत्र कलशपताका विभ्राजन्ते । तथा जीणोद्धाराः समुद्धृताः । साधर्मिकवात्सल्यानि कृतानि । स्वजनाः सन्मानिताः । साधूनां वखानदानानि दत्तानि | सप्तक्षेत्रेषु निज द्रव्यं व्ययितम् । इति वित्तव्ययात कीर्तिधौं समुपायं पर्यन्तेऽनशनं व्यधात् । आयुःक्षये विपद्य सौधर्मारुणप्रभे विमाने चतुःपल्योपमायुष्कः सुरो बभूव । अतः कारणादतिलौल्यताध्यानाजन्तुर्दुःखमनथपरंपरां चामोति । मनसि संकल्पोऽपि न चिन्तनीयः । यथा--कोऽपि कार्पटिकः भिक्षया प्राप्तं सक्तुभृतं घटं निजपादान्ते विमुच्य 8 शून्यदेवकुलेऽस्वपीत् । तत्र निशायां जाग्रदिदं दध्यो--" इमान् सक्तुकान् विक्रीय तन्मूल्येनाजां गृहीष्ये । तया सापत्यया धेनुं । तया सापत्यया महिपी । महिश्या सापत्यया वरवाजिनीं । तस्याः किशोरकैर्दिव्यैर्बहुद्रव्यं भविष्यति । तेन द्रव्येणोच्चं सुन्दरं मनो४ हरं गवाक्षजालिकायुक्तं सौधं कारयिष्यामि । तत्रावासे वासं विधास्ये । तत्रोपस्कर मेलयित्वा परिवार स्वजनं निमंत्र्योत्तमविप्रस्य सुतां ॥॥ ५५॥ परिणष्यामि । तस्याः सर्वलक्षणसंपूर्णः सुतो भविता । तस्य बालस्य बहुद्रव्यव्ययैर्वर्धापनोत्सवे कृते मम मनोरथशतैः सार्धं वृद्धिं KARAN in Education International For Personal & Private Use Only Airw.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy