________________
x*x*
लकुटेन ताडनीयः । स च स्वर्णपुरुषो भविष्यति " । ततः प्रभाते देव्यादेशेन तथैव विधिना कृते सुवर्ण पुरुषो जातः । खंडितोऽपि | सोऽक्षय एव । पुण्यप्रभावात्तत्रैव सुखी जातः । प्रातिवेश्मिकेन नापितेन स व्यतिकरो ज्ञातः । तेन चिन्तितं- 'अरे अमीषां व्यवहारिणां गृहे लक्ष्मीरित्थं प्रजायते । अहमपि करिष्ये ' । इति विचार्य सोऽन्यदा तादृशं नरं वीक्ष्य देवकुलस्थितं निमंत्र्य भोज| यित्वा लकुटेन शिरसि जघान । स तेन प्रहारेणोच्चैराक्रन्दत् तदा तलारक्षः सायुध आक्रन्दं श्रुत्वा समाजगाम । तद् दृष्ट्वा नापितो बद्ध्वा । राज्ञोऽग्रे निवेदितः । राज्ञा वृत्तान्तः पृष्टः - ' भोः सत्यं वद ' । स सर्वं वृत्तान्तं समाख्यातवान् – “स्वामिन् कुवेर व्यवहारिणो गृहे| यथा स्वर्णपुरुषोऽजनि तादृशं मयापि चक्रे । परं तु फलं तादृशं नाभूत् ” । भूपेन कौतुकात्तमाकार्य पृष्टं । कुबेरोऽपि सर्वं मूलादारम्य वृत्तान्तमाचचक्षे । ततो राजा तुष्टोऽवदत् - ' धन्योऽहं यस्य मे पुरे ईदृशा दातारः पुण्याढ्याः सत्यभाषिणः सन्ति । इत्युक्त्वा | राज्ञा सत्कृतः कुबेरः स्वगृहे गतः । नापितोऽपि मुक्तः । स्वगृहे गतः । तदनन्तरं कुबेरोऽपि विशेषतः सद्धर्मकृत्यपरोऽभवत् । पुण्यादबसाने स्वर्ग गतः ।
इति केवलिवचः श्रुत्वा धनसारः संविग्नः प्राह – “ प्रभो यद्येवं तत् परिग्रहनियंत्रणं ममास्तु | अथाहं यदर्जयिष्ये तदधै धर्मकर्मणि प्रदास्ये । अद्यप्रभृति मया कस्यापि दोषो न ग्राह्यः " । ततो धनसारेणान्योऽपि जिनोदितगृहिधर्मः प्रतिपन्नः । जन्मान्तरा| पराधितः केवली भृशं क्षामितः । ततः केवली भव्यान् प्रतिबोधयन्नन्यत्र व्यहार्षीत् । सोऽपि श्रेष्ठी परिभ्रमन् ताम्रलिप्यां पुर्यां गतः । | तत्र व्यन्तरप्रासादे प्रतिमया तस्थिवान् । व्यन्तरः कुपितस्तस्यातिभीषणैरुपसर्गेरुपसर्ग व्यधात् । सूर्योदयवेलां यावत्तस्योपसर्ग चकार । * | सोऽपि मेरुवद्वीरो निष्प्रकंपो मनागपि न चलितः । तं तथाविधं दृष्ट्वा दृष्टः सुरोऽवदत् – “धन्योऽसि महाभाग | तब पितरौ धन्यो ।
Jain Education International
For Personal & Private Use Only:
w.jainelibrary.org