________________
तथा च
कीटिकासंचितं धान्यं मक्षिकासंचितं मधु । कृपणैः संचिता लक्ष्मीरन्यैरेवोपभुज्यते ॥ २ ॥
तेनेदं चिन्तितं – “ अथाहं किं करोमि १ मया महाकृपण इत्याख्या पुरे प्राप्ता । अधुना निर्धनत्वेन पुरे हास्यास्पदं प्राप्स्यामि । ततोऽद्यापि जलधिमार्गेण चेद्यामि तदा मम लाभः सुन्दरो भावी ” । ततो मेयपरिच्छेद्यगण्यधार्यक्रयाणकं दशलक्षाणां संगृम पोतमारुह्य कणकाज्यभोज्यनीरेन्धनैर्युक्तः सांयात्रिकलोकैः सहाम्बुधिमध्ये प्रतस्थे । तत्राप्यभाग्यवशादकस्मात् कियद् दूरं गते घनेन नभो रुरुधे । उद्दंडो महावातः प्रकटीबभूव । विद्युदंडोऽप्युल्बणः समजनि । तदभोधिस्तं पोतमुदलालयत् । निर्याम कैर्वैर्यं मुक्तं । शरण्यरहितो लोकः किंकर्तव्यतामूढो जातः । कोऽपि जले झंपामदात् । कोऽपि देवतां सस्मार । कोऽपि गृहमानुषान् सस्मार । कोऽपि अधो नि पत्य स्थितः । कोऽपि मां रक्ष रक्षेत्यत्रक् । कोऽपि मुखं व्यादाय तस्थिवात् । ततः सहसा पोतः शतखंडो जातः । तस्मिन् पोते भने घनसारस्तु लब्धफलको वार्धिवीचिभिर्बहिः क्षिप्तः । ततोऽटव्यां भ्रमन् दीन इति व्यचिन्तयत् - " अहो मम च तद्धनं १ क तद्धनं १ क परिच्छदः १ पवनेन र्कतूलवत् विधिना क्वाहमानीतः १ धिग्मां, येन मया प्रभूतं धनं संचितं, न भुक्तं, न धर्मे व्ययितं, न परस्योपकृतं " इत्यादि भावयन् इतस्ततो भ्रमन् तत्कालोत्पन्नकेवलज्ञानभासुरं मुनी घरमेकं ददर्श । तन्महिम्नागतैर्देवैः स्वर्णपंकजे निर्मिते समासीनं तं मुदा नत्वा धनसारस्तत्रोपविष्टः । तदुक्तं धर्म श्रुत्वा लब्धावसरस्तं केवलिनं पप्रच्छ - 'हे भगवनहं कथं कृपणः कथं च नष्टविभवः संजातः १' । केवली प्राह - " भो भव्य शृणु । धातकीखंडभारते धनाढयेभ्यगृहे द्वौ भ्रातरावभूतां । पितरि मृते ज्येष्ठो गृहनेताऽभवत् । स च गंभीरः सरलः सदाशयो दाता सद्भावुकः । कनिष्ठः कृपणो लोभवान् । ज्येष्ठो यदा दीनादिभ्यो दानं
Jain Education International
For Personal & Private Use Only
२०%
www.jainelibrary.org