SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ * अथ पञ्चममणुव्रतं परिग्रहपरिमाणं ज्ञेयं । तस्यापि पञ्चातिचारा हेयाः। तद्यथा-- धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः। हिरण्यहम्नश्च संख्यातिक्रमोऽत्र परिग्रहे ॥१॥ परिग्रहप्रमाणनियमः कार्यः । लोभस्त्याज्यः । यतः. धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटि लक्षेश्वरोऽपि च ॥१॥ ___ कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ।।२।। ___ अतः कारणाल्लोभी निवारणीय एव । लोभिपुरुषाः कथमपि सुखं सन्तोपं च न प्राप्नुवन्ति । यतः1 वह्विस्तृप्यति नेन्धनैरिह यथा नांभोभिरंभोनिधिस्तद्वल्लोभघनो धनैरतिघनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विदधाम्येनांसि भूयांसि किम् ॥१॥ कालुष्यं जनयन् जडस्य रचयन् धर्मद्रुमोन्मूलनम् क्लिश्यन्नीतिकृपाक्षमाकमलिनी लोभांबुधिं वर्धयन् । मर्यादातटमुद्रयन् शुभमनोहंसप्रवासं दिशन् किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥२॥ ।अत्र व्रते धनसारदृष्टान्तः। अत्रैव भरताभिधे क्षेत्रे विश्वविख्याता मथुरा नाम महामनोहरा पुरी वर्तते । तत्र धनसारनामा व्यवहारी वसति । तस्य पद CRIGANGANA Education internations For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy