________________
र्ष ०
१ ॥
%%%
तप्तं तप्तं पुनरपि पुनः काञ्चनं कान्तवर्ण, घृष्टं घृष्टं पुनरपि पुनश्चन्दनं चारुगन्धम् । छिन्नश्छिन्नः पुनरपि पुनः स्वादवानिक्षुदंडः, प्राणान्तेऽपि प्रकृतिविकृतिर्जायते नोत्तमानाम् ॥ १॥ अथ ज्येष्ठसुतं तत्र निजपदे स्थापयित्वा समस्तराजवर्ग समादिश्य पौरानापृच्छय लघुसुतकलत्रयुक्तो भूरिपरिवारसमन्वितो धारापुरपुरं प्रति नृपोऽविच्छिन्नप्रयाणां ययौ । तत्र मंत्रिसामन्तप्रभृतयो नागराः प्रवेशाद्युत्सवं चक्रिरे । तत्र स राज्यं चकार । सर्वेऽपि |मुदितास्तं नृपं सिषेविरे ।
एकदा बहिरुद्याने ज्ञानिनं मुनिमागतं श्रुत्वा मुनिं नत्वा धर्मदेशनां श्रुत्वा प्राच्यकर्म पृष्टवान् । मुनिर्ज्ञानाद्विदित्वोवाच - "राजंस्त्वं प्राग्भवे चंपायां शंखनामा व्यवहार्यभूत् । श्रीमती तव प्रियाऽभूत् । सद्गुरुयोगात्तारुण्ये चैत्येषु जिनाचैनं दीनादिषु दानादिकं पुण्यमगण्यं करोति । ततो वृद्धभावे सर्वमपि पुण्यकार्यं मुक्तं । तयोर्जीवों विपद्य युवां क्रमाज्जातौ । तेनादा राज्यश्रीः | प्राप्ता । पश्चाद्दुःखिनौ जातौ । निजबुध्ध्या यच्छीलं पालितं तत्प्रभावादिहैव जन्मनि राज्यसौख्यं भूयोऽप्यासादितं " । ततो नृपः संवेगरंगेण तरंगितमना धर्मकृत्यं श्रुत्वाऽणुव्रतानि गृहीत्वा सर्वज्ञभवनानि कारयित्वा जिनेश्वराणां प्रतिमाः स्थापयित्वा विधिनायामास । स नृपो दयार्द्रचित्तः सत्यासक्तः परद्रव्यपराङ्मुखः सशीलः सुसंतोषः परोपकृतिकर्मठ एवंविधो राझ्या समं गृहिव्रतमखंडितं पालयित्वाऽवसाने शुभध्यानं कृत्वा दिवं ययौ । अतः कारणाद्भव्यैर्ब्रह्मव्रतं पालनीयं ।
। इति ब्रह्मत्रते सुन्दरनृपकथानकं ।
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ५१ ॥
www.jainelibrary.org