SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ rato ५० ॥ स्थितयो रात्रौ मिथः संलापं कुर्वतोविनोदाय कनीयसा भ्रात्रा ज्येष्ठः पृष्टः - ' आवयोः पिता क्व गतो भविष्यति ? माता च क्व गता भविष्यति ? ' । ज्येष्ठबन्धुरवक्—' न ज्ञायते जननीजनकयोः संयोगः कदा भविष्यति' । इत्यन्योऽन्यं स्वराज्यादिवृत्तान्तं तावाख्यतुः । तदा तत्र कर्मकरी मध्यस्थिता सार्थवाहेन सहागता राज्ञी मदनवल्लभा प्रायेण दुःखाज्जाग्रती समूलपर्यन्तं वृत्तान्तं श्रुत्वा स्नेहशोकाभ्यां विह्वलीभूतमानसा तत्रागत्य तयोः कंठे विलग्य बाढं रोदिति । 'मम मन्दभाग्याया हा वत्सौ युवां चिरान्मिलितौ ' । सार्थपतिस्तत् ज्ञात्वा कुपितो हठेन तां दूरमुत्सार्य तौ धृत्वा भूपतेः प्रातरार्पयत् । सोपालभं चावादीत् - ' स्वामिन्नारक्षकेण सुन्दरात्रस्मन्मनुष्यधूर्तत्वकारिणौ यामिका प्रेषितौ ' । राज्ञोक्तं तलारक्षकस्य - 'काविमौ ? ' सोऽप्यचीकथत् – 'स्वामिन्नोपलक्षयामि । कियान् कालो जातः । मद्गृहस्थौ सेवां कुरुतः' । नृपस्तौ सम्यगुपलक्ष्य रोमाञ्चकञ्चुकं दधौ । तथापि गुरुगांभीर्यादाकारगोपनं विधाय तयोः साक्षेपमवोचत् – 'रे युवाभ्यां किं कृतं ?" । इत्युक्त्वा तौ समालिंगितौ । तावपि नृपचरणे पेततुः । तयोर्मध्ये ज्येष्ठोऽवदत्-"देव रात्रौ अद्य सोदरस्य पुरः स्वचरित्रमहं कथयामास । तदा कापि स्त्री सार्थमध्याद् द्रुतमागत्यास्मत्सन्निधावेवमुक्तवती 'मम युवां पुत्रौ' इत्युक्त्वा साऽस्मत्कंठे विलग्य बाढं रोदिति स्म । नाधिकमतः परं जानामि " । तदा नृपः साथैशमुवाच - 'मार्थेश वद सत्यं, का सा स्त्री १ ' । तदा साथैशोऽवदत् - ' मया पृथ्वीपुरादानीता मद्गृहकार्याणि करोति । परं तु सा सती । सती| त्वेन तस्या विमलं कुलमनुमीयते " । ततो नृपः प्रधानं प्रैषीत् - 'बलात्कारो न कार्यः, संबोध्य सा आनीयतां' इत्युक्त्वा भूपतिरमात्यं प्रैषीत् । सोऽपि गत्वा तामाकारयति । सा सन्मुखमपि नावलोकयति । प्रधानः पश्चादागत्य नृपस्य शशंस - ' सा नैति न च | ब्रूते' । अथ सद्यो राजा राजपाटीमिशत् स्वयं बहिर्गत्वा व्याघुटय सार्थमध्ये सार्थेशावासं समागतः । तत्र भद्रासनोपविष्टस्य नृपस्य Jain Education International For Personal & Private Use Only चरित्र ॥ ५० ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy