SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ | द्वारं चैकं दृष्टं । तदुद्घाटय मध्ये प्रविष्टः । अग्रे महानावासो दृष्टः । तन्मध्ये नाटकं दृष्टं । तत्र सिंहासने चलत्कुंडलाभरणः सुरो दृष्टः । | तस्य पादयो राजा पतितः । सुरेण पृष्टं - ' कथमत्रागतः ? ' । तेन स्ववृत्तान्तो निवेदितः । तच्छचा सुरस्तुष्टोऽवकू – “ धन्यस्त्वं यस्येदृशो नियमोऽस्ति । संकटेऽपि यस्यैवं प्रतिज्ञा । तव सच्वेन तुष्टः । वत्स वरं वृणीष्व " । नृपेणोक्तं- 'स्वामिन् मम भार्या सुतौ च व सन्ति ? ' । सुरेणोक्तं- “ तव कुटुंबं मिलिष्यति । तव शीलप्रभावाद्राज्यमपि भविष्यति । चिन्तामणिरत्नं गृहाण | मनस ईप्सितं भविष्यति " । इति चिन्तामणिरत्नं दत्वा सुरेण तस्मिन्नेवादिदेव चैत्ये मुक्तः स नृपो मुदित इतस्ततो भ्रमन् श्रीपुरनगरासनोपवने आम्रतरोरधो विशश्राम । तस्याम्रस्य फलैः क्षुन्निवृत्तिं करोति । स श्रमायातया निद्रया सुष्वाप 1 इतश्च तदा तत्र पुरे पुत्रवर्जिते राज्ञि विपन्ने हस्त्यश्वचामरच्छत्र कुंभाख्यं दिव्यपञ्चकं राजलोकेन पुरस्कृतं पञ्चशब्दनिनादेनाधिवासितं यत्राम्रतशेरधो नृपः सुप्तोऽस्ति तत्र भ्रमद्ययौ । तत्र हयेन हेषितं । हस्तिना बृंहितं । शिरसि कुंभांबु पतितं । उपरिष्टाच्छत्रं स्थितं । चामरद्वयं चलितं । अथ स करीन्द्रमारुह्य दिव्यवेषधरो महोत्सवः पुरं प्रविष्टः । मंत्र्यादिभिर्नतः । भाग्यप्रभावातत्र राज्यं करोति । शीलप्रभावतस्तस्य सर्वेऽपि सामन्ता अनम्रा अपि नम्रतां ययुः । एकदा प्रधानैस्तस्य पादयोर्निपत्य बहु मणितोऽप्यसौ नरपतिः स्वप्रियतमाधियोगदुःखाद्दारसंग्रहं न मेने । अधान्योन्यवियुक्तौ तौ कुमारी भ्रमन्तौ तत्र श्रीपुरे नगरे समागत्यारक्षकान्तिके स्थितौ । अन्यदा भवितव्यतावशात्स सोमदेवोऽपि सार्थवाहो वाणिज्यार्थे तस्मिन्नेव नगरे समागत्य बहिरावासितः । सार्थवाहः श्रेष्ठं किञ्चिदुपायनं गृहीत्वा नृपसन्निधौ निशि रक्षार्थं यामिकान् ययाचे । राज्ञा तल रक्षकः समादिष्टः । तलारक्षकोऽपि तावुभौ कुमारौ तत्र रक्षितुं प्रेषीत् । तयोस्तत्राव Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy