SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ पार्श्व० ४९ ॥ वीक्ष्य मदनातुरा जाता । असतीजनयोग्यानि वचांसि बहुधा व्यधात् । तन्निशम्य नृपश्चकितश्चित्ते चिन्तयति -- “ अरे दैव त्वदायत्त राज्यवित्तादिकं यातु परं शीलं मदायतं, तन्मा यातु । अत्रावस्थानं नूनं शीलभंगाय मम भवति । श्रतोऽहमन्यत्र यामि । विरुद्धा भूः परित्याज्या " । इति विचिन्त्य तस्या महाग्रहं ज्ञात्वा यत् किञ्चिदुत्तरं दत्त्वा तद्गृहान्निर्ययौ । देशान्तरे भ्रमन् श्रीआदिदेवप्रासादं ददर्श । तत्र श्री ऋषभदेवं स्तुत्वा गवाक्षे समुपविष्टोऽस्ति । इतश्च काचिद्यक्षिणी सुरी तागात् । जिनेश्वरं प्रणम्य पश्चाद्वलमानया तया स नृपो दृष्टः । तमनंगसमरूपं दृष्ट्वा मोहं प्राप्ता सा मदनातुरा तं नृपं कथयति - " भोः सुन्दरपुरुष मया सह त्वं पञ्चविधानि विषयसुखानि भुंक्ष्व । तव मनोवाञ्छितं ददामि । मदीयविमाने त्वरितमागच्छ । नो चेत्तव विप्रियं करिष्ये । तव | मृत्युर्भविष्यति । अतः कारणान्मया सह भोगान् भुत्र " । नृपस्तच्छ्रुत्वाऽचिन्तयत् – ' यतोऽहं नष्टस्तदग्रेतनं संजातं' इति विचिन्त्योवाच - " अहो देवि मम परनारीनियमो ऽस्ति । अन्यच्चाब्रह्मफलं शृणु- षंढत्वमिन्द्रियच्छेदं वीक्ष्याब्रह्मफलं सुधीः । भवेत्स्वदारसंतुष्टोऽन्यदारान् वा विवर्जयेत् ॥ १ ॥ अतः कारणान्मम नियमोऽस्ति । त्वयाऽसमञ्जसं न वक्तव्यं । यूयं देवाः । अहं मानवः । संयोगोऽयं न संजाघटीति " । ततो देवी तस्य निश्वयं ज्ञात्वा कुपितोरगीरूपेण नृपमदशत् । तदनन्तरं समुद्रान्तरालद्वीपे क्रूपमध्ये मुक्तः । देवी तिरोदधे । स शीलप्रभावात्प्रतिकूपे पपात । कूपवाताच्छीलानुभावाच्च निर्विषो बभूव । क्षणेन सावधानीभूत आत्मानं कूपान्तराले पश्यति । चेतसि चिन्तयति – “ चेन्मम शीलमखंडितमस्ति तदा मे किमपि नो गतं । सर्वोऽयं मम पूर्वकृतकर्मप्रभाव एव " । तत्र कूपमध्ये Jain Education International For Personal & Private Use Only चरित्र ॥ ४९ ॥ www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy