SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ R&G प्रयाण दिवसे विशेषकार्यमुद्दिश्य मुग्धत्वेन विप्रतार्य सा स्थापिता । शेषदिनमतिक्रम्य साथैशः स्वपुरं प्रति प्रस्थितः । सा राज्ञी सार्थे धृता । मार्गे गच्छता विविधोपायैः सा क्षोभ्यमाणापि न क्षुब्धा । स्वपतिं ध्यायन्ती मौनमेव समाश्रयत् । स पापस्तस्याः शीलभंगं कर्तुं न शशाक । तस्या अपि महादुःखेन वासरा यान्ति । इतस्तस्या भर्तुर्महीपतेर्गृहिणीं विनाऽत्यन्तं दुःखं समजनि । पुटपाकसमं दुःखमनुभवंश्चित्तऽचिन्तयत्-- " अहं कठोरहृदयोऽस्मि । मद्वियोगार्ता सा किं करिष्यति । एतदप्यस्तु | रे दैव ते मनोरथाः पूर्यन्तां " । इति विचिन्तयन् किंकर्तव्यतामूढो यात्स्थितोऽस्ति तावत्तत्र श्रीसारश्रेष्ठी समागतः । स्वपाटकमनुष्याणां सारां कुर्वस्तमैक्षत । स ऊवे' भो भद्र त्वं कथं सचिन्त इव दृश्यसे ? ' । स लज्जाशोकभराकान्तो यावन्नोत्तरं ददौ तावद् पार्श्वजनैः श्रेष्ठिनः पुरः सर्वं यथाजातमाख्यायि । ततः श्रेष्ठयुवाच -- " महाभाग किं विधीयते । कर्मणां गतिर्विषमाऽस्ति । यतः - Jain Education International नीचैर्गोत्रावतारश्वरमजिनपतेर्मल्लिनाथेऽबलात्वं गुनाशो ब्रह्मदत्ते भरतनृपजयः सर्वनाशश्च कृष्णे । निर्वाणं नारदेऽपि प्रशमपरिणतिः सा चिलातीसुतेऽपि इत्थं कर्मात्मवर्ये स्फुटमिह जयतां स्पर्धया तुल्यरूपे ॥ १ ॥ For Personal & Private Use Only **** www.jainelibrary.org
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy