________________
Jain Educa
बहुकालो गतः । अन्येद्युर्मध्यनिशायां तं नृपं प्रति विषण्णवदना कुलदेवता समेत्यैवं जगाद - " अहो राजंस्तवावस्था ऽशक्यप्रतीकारा ssगन्तुकामिनी वर्तते । अधुना तव नवं वयोऽस्ति । अग्रे वृद्धं वयो भविष्यति । त्वदीयवचनादहं स्वप्रभावेण कालविलंबं कुर्वे । यदि कथयसि तदा नवे वयसि तथावस्था प्रादुर्भवति । यदि च कथयसि तदा वृद्धवयसि तथावस्था प्रकटीभवति । मया कालवि - लंबो विधीयते, परं मूलत उच्छेत्तुं न शक्यते " इति निशम्य राजा हृदि भृशं व्याकुलितस्तां नत्वा धैर्यमवलंब्येदं वचनमब्रवीत् - " मातर्जीवेन यच्छुभाशुभं कर्मार्जितं तदेव भोक्तव्यं । उक्तं च
यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् । तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥ १ ॥
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ २ ॥ अतः कारणाद्यद्भवति तद्भवतु । किं च हे देवि वृद्धभावे दुर्दशावस्थामहं भोक्तुं न क्षमः । अतोऽधुनैवास्तु " । ततः सा कुलदेवता निजं स्थानमुन्मना गता । नृपेण धैर्यमवलंब्योरीकृतावस्था । यतः—
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ १॥
नृपेण चिन्तितं -- “ सुभटैरापत्तिमृत्युशत्रूणां संमुखमेव गन्तव्यं । अतः कारणाद्भार्या प्रेमवती सती मुग्धमुखौ बालौ सुतौ चैत - देव मम कुटुंबं । अनेन कुटुंबेन समं राज्यं त्यक्त्वाऽन्यतो यामि " । इति निश्चित्यामात्याय निशान्तर्वृत्तं वृत्तान्तमचीकथत् । " इदं
mational
For Personal & Private Use Only
Xx
www.jainelibrary.org