________________
चिं०
४६ ॥
*
अथ तुर्यत्रतं ब्रह्मत्रतं पालनीयं । तस्यापि पञ्चातिचाराः । तद्यथाइत्वररात्तागमोऽनात्तागतिरन्यविवाहनम् । मदनात्ताग्रहोऽनंगक्रीडा च ब्रह्मणि स्मृताः ॥ १ ॥ व्याघव्यालजलानिलादिविपदस्तेषां व्रजन्ति क्षयं, कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिभियति यात्युपचयं धर्मः प्रणश्यत्यधं, स्वर्निर्वाणसुखानि संनिधते य शीलमाविभ्रते ॥ २ ॥ हरति कुलकलंकं लुंपते पापपंकं, सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्ग, रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥ ३ ॥
किंच
ब्रह्मवतरता ये च विरताश्चान्ययोषितः । महातेजस्विनस्ते स्युर्वन्द्या दिविषदामपि ॥ ४ ॥ परित्यक्तान्यकान्तानां नराणामपि (मिव ) योषिताम् । विधिरप्यनुकूलाय दृष्टान्तोऽत्र निशम्यताम् ॥ ५ ॥
अंगदेशे सर्वत्र प्रसिद्धं धारापुरनगरमस्ति । तत्र प्रकृतिसुन्दरः सुन्दरनामा नृपो राज्यं करोति । तस्य भाग्यसौभाग्यनिकेतनं सतीजनशिरोरत्नं मदनवल्लभा नाम नृपस्यात्यन्तवल्लभकैव दयिताऽस्ति । तयोः कीर्तिपाल महिपालाभिधौ सुतावुभौ स्तः । तस्य नृपस्य न्यायधर्मैकनिष्ठस्य हृदि विशेषतः परनारीषु सहोदरत्वरूपदृढव्रतमस्ति । एतद्व्रतपालनात्तस्यसच्चैकनिधे राज्ञः सर्वत्र कीर्तिर्विस्तृता ।
Jain Education International
For Personal & Private Use Only
चरित्र
॥ ४६ ॥
www.jainelibrary.org