SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अन्यदा नन्दनोद्यानवने चारणश्रमणमुनीश्वरयुग्मं समागतं । मंत्रीशास्तदागमनं ज्ञात्वा तदन्तिके नृपं निन्युः । मुनीन्द्रोऽपि महीपतेर्भाव विज्ञायोवाच-"संसारे जीवः कर्मणा समं मिलितः सुखं दुखं च भुनक्ति । अतः सौख्यार्थिना शुभकर्मणः | संचयः कार्यः । स चात्मा चेतनरूपः सुज्ञानेन योज्यः । अज्ञानाद्रक्षणीयः । बुद्धिगुणविद्याभिः श्रीवलैः पराक्रमभक्त्या युक्त्या च मृत्युतो रक्षितुं जनों शक्यते । उक्तं च मृत्युः शरीरगोतारं वसुरक्षं वसुन्धरा । दृश्चारिणीव हसति स्वपति पत्रवत्सलम॥१॥ अघटितघटितानि घटयति सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति यानि पुमान्नैव चिन्तयति ॥२॥ . स न प्रकारः कोऽप्यस्ति येन सा भवितव्यता। छायेव निजदेहस्य लंध्यते हन्त जन्तुभिः ॥३॥ ____ अशरणोऽयं जीवः । जीवानां पुनर्जन्म पुनर्मृत्युः केनापि नो निवार्यते । प्राणाः पञ्चदिनप्राघूर्णका इति विज्ञाय को रागः || है को द्वेषः को निजः कः परः ? देवोपालंभैररण्यरुदितप्रायैरंभोध्यवगाहनसंनिभर्विकल्पकल्पनैः किं ? आत्मपरात्मस्वरूपं निरी क्षणीयं " । इति गुरुणा संबोधितो राजा वैराग्येण व्रतं गृहीत्वा पदमव्ययं प्राप्तः । अतः कारणात् परद्रव्यपरिहारपरायणे रस्तुतीयं व्रतं पालनीयं । । इति चौर्यव्रते महाबलसंवन्धः । CHORACTORGANA For Personal & Private Use Only
SR No.600183
Book TitleParshwanath Charitram
Original Sutra AuthorUdayvirgani
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages338
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy