________________
श्रीरुपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
828282828282828282828282
सर्वा अपि दास्यस्तत्र समागताः, ता अपि कुमारी स्वरूपस्थां विलोक्यातीवहृष्टा: सत्य: प्रोचुः, हे सखि मर्कटीभूता त्वमनेन सत्पुरुषेण नृपादेशात्सज्जीकृतासि, कुमार्याप्युक्तमहोऽस्य परोपकारित्वं । यत:- विरला परकज्जकरा, विरला पालंति लद्धनेहं च ।
विरला परदुक्ख्नेठ्ठिया, परदुक्ख्ने दुक्खिया विरला ॥१७२॥ ___ ततो दास्यस्ता: सर्वा अपि राज्ञो वर्धापनिकां दातुं गताः । तदा तया कनकवत्या राजकुमार्या योगिवेशधारिणं कुमारं प्रत्युक्तं हे स्वामिन्नथ मां प्रति सौम्यदृष्ट्या विलोकय । इत्यादिवचनैर्बहुविज्ञप्तोऽपि कुमारस्तस्याः सन्मुखमपि न पश्यति स्म । अथ दासीभिर्वर्धापितो राजा हर्षविषादाभ्यां सममेवालिंगित: कुमार्यावासे समागतः । तदा योगीन्द्रेणोक्तं हे राजन्मया तव पुत्री सज्जीकृतास्ति, तत् श्रुत्वा भृशं चिन्तातुरो राजा स्वमनसि चिन्तयामासाहो एष योगी त्वज्ञातकुल: कोऽपि वैदेशिको वर्तते, तेन तस्येयं कन्या कथं दीयते ? ततो राज्ञा प्रेरितो मन्त्री तं योगिनं प्रत्याह हे योगिराज भवतां कुत्र वास: ? का जाति: ? किं कुलं ? को धर्म: ? अस्मिन् वयसि च योगग्रहणे किं कारणं ? योगी प्राह हे मन्त्रीन्द्र ! जातिकुलादिप्रश्नैस्तव किं प्रयोजनं ? राज्ञा पूर्वं यत्कन्यादानं
828282828282828282828282
॥
८
॥
For Personal Private Use Only
Mw.jainelibrary.org