SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं +8. ॥ ८० ॥ Jain Educ REREREREREDERERERERERERE निजभ कथितः, ततो भार्यया प्रेरितः सोऽपि स्कन्धे कुठारमादाय तमेव वृक्षं वने ययौ । तदनन्तरं यावत्स तं वृक्षं छेत्तुं लग्नस्तावद्यक्षेण तस्य हस्तौ बद्धौ । तस्य शरीरादौ च महती व्यथा कृता, एवं च यक्षेण स्तम्भितोऽसौ तत्र महाकरुणस्वरं पूत्कारं कर्तुं लग्नः, तत्र मिलितैर्लोकैस्तं यथाविधं वीक्ष्य तद्भार्यायै तस्य स्वरूपं कथितम् । तदा भयभीता सापि तत्रागत्य बलिकर्मादि कृत्त्वा यक्षं प्रति प्रोवाच, हे यक्षाधिराज ! कृपां विधाय मम पतिं मुञ्च ! यक्ष आह भो भामिनि तव गृहे नित्यं यावन्मितं महिषीणां घृतं भवति तत्सर्वं त्वया मम देवगृहे प्रेषणीयं यदिदं स्वीकरोषि तदा तव स्वामिनमहं मुञ्चामि यस्मिंश्च दिवसे त्वं मद्गृहे तत्सर्वं घृतं न दास्यसि, तदा तवेमं भर्तारं पुनरपि तथैव करिष्यामि । ततस्तयापि भीतया तत्सर्वं प्रतिपन्नं, ततो यक्षेण मुक्तो वृद्धभ्राता स्वगृहे गतः । तथा हे मन्त्रिस्त्वमपि मया वार्यमाणश्चेन्न स्थास्यसि तदा स इव पश्चात्तापं प्रयास्यसि । योगिनेत्युक्तो मन्त्र्यपि भीतः पश्चात्स्वगृहे गतः । अथ स योगी हृष्टः सन्नेकाक्येव कुमार्या आवासमध्ये गतः, ततस्तेन दासीसमूहं बहिष्कृत्य तस्या मर्कटिकाया अग्रे मूलिका धृता, तत्क्षणमेव सा मूलस्वरूपा जाता । ततस्तया कुमार्याहूता: For Personal & Private Use Only REDEREREREREREREREREDERE श्रीरूपसेन चरित्रं ॥ ८० ॥ ww.jainlibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy