SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन श्रीरूपसेन चरित्रं चरित्रं 928282828282828282828282 श्रुत्वा राजा प्राह हे मन्त्रिस्त्वदुक्तं सत्यमस्ति, परं यदा कुमारी सज्जीभवेत्तदैव मम चित्ते समाधि: स्यात्, अतस्तत्कृते कोऽप्युपायो विलोक्यताम् । मन्त्री प्राह हे स्वामिन् मालिन्यानया सत्यमेव योगिमुक्तक्रीडामर्कटस्वरूपं प्रोक्तमस्ति, ततश्च ज्ञायते यदेवंविधकार्यकारिणो योगिन एव सन्ति, ते हि धूर्ता देशान्तरेषु भ्रमन्ति, मन्त्रतन्त्रादिभिश्च लोकान् विप्रतारयन्ति, किंच प्रायस्तेऽसत्यवादिन उन्मादिनो मांसादिनश्च भवन्ति, एषां विश्वासो नैव कार्य: । तत् श्रुत्वा राज्ञा निजसेवकैर्देशविदेशेभ्य: सहस्रशो योगिनस्तत्राहूता:, समागताश्च ते सर्वे, राज्ञा पशव इव वाटके क्षिप्ताः, तत्रस्थास्ते सर्वे चिन्तयामासुरहोऽस्माकं नृपः किं प्रकारं गौरवं विधास्यति ? अथान्यदा राजा तान् योगिन: प्रति कथयामास, भो योगिनो यूयं देशविदेशभ्रमणशीला: कौतुकमन्त्रतन्त्रादिविद: कलाकुशला: स्थ, अतस्तं कमप्युपायं कुरुत यथा मर्कटीभूता मत्पुत्री सज्जा भवेत्, ते प्रोचुः हे राजन् वयं तु भिक्षया निर्वाहं कुर्मः, अस्माकं वृश्चिकोत्तारणमन्त्रोऽपि नायाति, चेत्कापि कलास्माकमग्रे स्यात्तदा तां कुतो भवतामग्रे न प्रकाशयाम: ? अथ राज्ञा स्वसेवका: पृष्टाः, भो सेवका: किं भवद्भिः सर्वेऽपि योगिनोऽत्रानीता: सन्ति ? तैरुक्तं हे स्वामिन्नेकं योगीन्द्र विना सर्वेऽपि योगिनोऽत्र 128282828282828282828282 ॥ २ ॥ Jain Educat For Personal Private Use Only ww.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy