SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ४६ Jain Educati DERERERERERERERERERERERE समणा गावो वेसा, इत्थीओ बालरोगिबुड्ढा य । एए न हु हंतव्वा, कयावराहावि लोएवि ।। १०५ ।। तत् श्रुत्वापि कुपितेन राज्ञा मन्त्रिवचो न मानितम्, प्रत्युत कर्कशवचनैस्तेन मन्त्र्यपि तर्जितः । पुनर्मन्त्रिणोक्तं, हे स्वामिन् मया त्वेतद्भवतो हितार्थमुक्तमस्ति, अतो भवता मह्यं प्रत्युत कर्कशवचनैस्तर्जनं न युक्तं यतः विरज्यते परिवारो, नित्यं कर्कशभाषया । परिवारे विरक्ते तु प्रभुत्वं हीयते नृणाम् ॥ १०६ ॥ इतश्चतुष्पथमध्ये महान् कोलाहलो जातः, बहवो लोकास्तत्र मिलिताः, भयभीताः परस्परं कथयन्ति, अरे एतेषां चौराणां समीपे स्थातुमपि युक्तं न, यतः सर्वथा चौरसंगो हि, विपदे व्रतशालिनाम् । जलहारिघटीपार्श्वे, ताड्यते पश्य झल्लरी || १०७ ॥ तावता स रूपसेनकुमारोऽपि नगरकौतुकानि विलोकयंस्तत्र समागत:, लोकानां हाहाकारं श्रुत्वा चतुर्दशशतमनुष्याणां वधं च विज्ञाय तस्य मनसि दया समुत्पन्ना । यतःधर्मो जीवदयातुल्यो, न कोऽपि जगतीतले । तस्मात् सर्वप्रयत्नेन, कार्या जीवदया नृभिः || १०८॥ एकस्मिन् रक्षिते जीवे, त्रैलोक्यं रक्षितं भवेत् । घातिते घातितं तद्धि तस्माज्जीवान्न घातयेत् ॥ १०९ ॥ For Personal & Private Use Only RERERERERERERERERERERERE श्रीरूपसेन चरित्रं ॥ ४६ ॥ nelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy