SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरुपसेन चरित्रं RURUKURURURURURURURURURU परकीयं दुःखं स्वायत्तीकृतं । अथ राज्ञः सकाशात्कथं छुटिष्यते ? एवं ते आरक्षकास्ता वेश्याश्च भृशं विलक्षा जाता: । अथ राजा तु कोपाज्जाज्वल्यमानस्वान्त: साक्षात्कृतान्त इव सभायामागत्य ता वेश्या: समाहूयोवाच, अरे वेश्या युष्मद्भिरप्यहं मासं यावद्विप्रतारित:, अथ पश्यत मत्कोपफलम् ! इत्युक्त्वा राजा तलारक्षकमाकार्योक्तवान्, भो तलारक्ष ! एता: सर्वा अपि वेश्या: सर्वानारक्षकांश्च पुरमध्ये विडम्ब्य गृहसर्वस्वग्रहणपूर्वकं शूलायामारोपय ! अथात्र विषयेऽहं पुनर्न प्रष्टव्यः, राज्ञ इत्यादेशं श्रुत्वा सभाजना अपि खेदं प्राप्ताः सन्त इति चिन्तयामासुः माता यदि विषं दद्यात्, पिता विक्रयते सुतम् । राजा हरति सर्वस्वं, पूत्कर्तव्यं ततः क्व च ॥१०३॥ अथ सा वार्ता नगरमध्येऽपि प्रसिद्धा जाता । लोका: परस्परं वदन्ति यदेकेन केनापि पापं कृतं, अनर्थस्त्वयं सर्वेषामप्यभवत्, तथा चोक्तं रावणेन कृते पापे, राक्षसानां तु कोटयः । हता: श्रीरामभक्तेन, कुपितेन हनूमता ॥१०४॥ अथ मन्त्रिभी राज्ञे विज्ञप्तं, हे स्वामिन्नेतासां वेश्यानां वधकरणे हि महान् दोषोस्ति, शास्त्रोऽपि स्त्रीणां वधो निषिद्धोऽस्ति, तथाहि YRYYRYYYYYYYYY ॥ ५५ ॥ For Personal Private Use Only -pinelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy