________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
28282828282828282828282
कियन्तो दीनाराश्च भूमौ पतिताः, एवं च तद्वंशिकात एकैको दीनारो भूमौ पतति । इतस्तत्र कोऽपीभ्यस्तत्र मार्गे समागच्छंस्तं तथा कुर्वन्तं दृष्ट्वापृच्छद्भो पुरुष ! त्वयैतत्किं क्रियमाणमस्ति ? तत् श्रुत्वा समुत्पन्नबुद्धिना तेनोक्तमसौ रिञ्छ: कर्णयोर्मर्चमानो दीनारान् मुञ्चति । तत् श्रुत्वा लोभाभिभूत: स इभ्यो जगाद हे सत्पुरुष ! तयेनं रिञ्छं मह्यं देहि यथाहमपि कियतो दीनारान् समर्जयामि । तेनोक्तमहो एवंविधो धनप्रदो रिञ्छो मया तुभ्यं कथं दीयते ? इभ्येनोक्तं भो सत्पुरुष ! त्वं कृपापरोऽसि, ततो मह्यमसौ रिज्छो दीयताम् ! एवमभ्यर्थितेन तेन पुंसापि तस्येभ्यस्य हस्तयोस्तस्य रिञ्छस्य कर्णौ दत्तौ । इभ्येनापि तत्की स्वहस्ताभ्यां बाढं गृहीतौ । तत: स पुमान् भूमिपतितस्वदीनारान् गृहीत्वाग्रे चलित: । इभ्योऽपि दीनारवाञ्छया तस्य रिज्छस्य कर्णी बाढं मर्दयामास । अथ दूरं गत्वा तेन पुंसा तस्येभ्यस्योक्तं भो मित्र ! किं तव दीनारलाभो जात: ? इभ्येनोक्तं हे मित्रासौ रिञ्छस्तु मां हन्तुमिच्छति, तेनोक्तं तस्येनं मुश्चेत्युक्त्वा स तु वेगेन तत: पलायितः । अथ स इभ्यो न च तं रिज्छं मोक्तुं गृहीतुं वा न शक्नोति, एवं लोभाभिभूतेन तेन परकीयं दुःखं स्वस्योपरि गृहीतं, तद्वदस्माभिरपि केवलं कीर्तिवाञ्छयैतन्मरणरूपं
28282828282828282828288
Jain
For Personal Private Use Only
Minw.jainelibrary.org