________________
श्रीरूपसेनचरित्रं
♦♦
॥ ४१
Jain Educ
ERERERERERERERERERERERY
सन्तः कथं तद्वार्तां नाधिगच्छथ ? को जीवितव्यादुद्विग्नोऽस्ति ? कस्य ममापि भयं नास्ति ? अहं युष्माकं सर्वेषामपि शिक्षां करिष्यामीत्युक्त्वा राज्ञा तलारक्षकमाहूय तेषां सर्वेषामपि चौरदण्डकरणाय समादिष्टम् । यदि चैते कुमारिकाप्रासादप्रवेष्टारं दर्शयन्ति तदैव मोच्याः, अथ तारक्षकेणापि विविधप्रकारैः पृष्टा अपि ते भयेन कम्पमानास्तदेवाहु:, यद् हे स्वामिन्नत्र विषये वयं किमपि न जानीमः, तदा तलारक्षो नृपादेशेन तान् सर्वानपि शूलायामारोपणार्थं चतुष्पथे समानयामास । तत्र बहवः पौरलोका मिलिताः, नगरमध्ये महाहाहारवो जातः, ते च कथयितुं लग्नाः, अरे स कोऽपि किं नगरे नास्ति ? य एतेषां मरणभयं निवारयति, अथ तत्र नगरे वेश्यानां सप्तशतगृहाणि सन्ति, ताभिर्वेश्याभिर्मिलित्वा तेषामारक्षकाणां दययेति राज्ञे विज्ञप्तं, हे स्वामिन् केनापि धूर्तेनायमन्यायः कृतोऽस्ति, एते आरक्षकास्तु मुधैव मार्यन्ते, तेन चान्येन पापं कृतं, तदर्थं चान्येषामयं दण्डो जायमानोऽस्ति, यथा
दुष्टाश्रयाददुष्टेऽपि, दण्डः पतति दारुणः । मत्कुणानामधिष्ठाना-त्खट्वा दण्डेन ताड्यते ||१००|| राज्ञोक्तं मत्कृतं पापं हठात्कस्यापि न लगति, उक्तं च
For Personal & Private Use Only
GREREDERERERERERERERERE!
श्रीरूपसेन
चरित्रं
॥ ४१ ॥
ww.jainelibrary.org