________________
श्रीरूपसेनचरित्रं
॥ ४० ॥
Jain Educatio
REREREREREREREREREREREREI
कलाभ्यासैर्गुणोल्लासै- 'रेनोनाशैः कथारसैः । मिथोहासैर्दिनानीह, यान्ति भाग्यवतां सदा ॥९८॥ अथ क्रमेणोद्भिन्नयौवनां कुमारी दृष्ट्वा सर्वा दास्यो भीताः सत्यस्तद्वृत्तान्तं पट्टराज्यै ज्ञापयामासुः, राज्ञ्या पृष्टास्ता जगुः, हे स्वामिनि वयमेतद्विषये किमपि न जानीमः, परं कुमारीमुद्भिन्नयौवनां वीक्ष्य वयमित्यनुमानं कुर्महे, यत्कोऽपि विद्याधरो भूचरो वाऽदृष्ट एव पुरुषो नूनं कुमारीपार्श्वे समागत्य तया सह दुराचारं सेवते, वयं त्वेतन्निवेदयामः, पश्चादस्माकमुपरि दोषो न देयः, अथ विषण्णा राज्ञी तं वृत्तान्तं नृपाय जगौ तदा विस्मितेन राज्ञापि तद्विषये मन्त्रीश्वराः पृष्टाः, तदा तैरुक्तं हे स्वामिस्तत्र तु सप्तशतमिता आरक्षका रक्षिताः सन्ति, तन्मध्यात्तत्र चेत्कोऽपि समागच्छति तदा तस्य महत्साहसं नूनं ज्ञेयं, परमत्र कोऽपि भेदो ज्ञायते, यतः
भेदेन दुर्गा गृह्यन्ते, भेदाद्राज्यं विनश्यति । भेदाद् गृहे कलिर्भेदाद्, द्रव्यं चौरा हरन्ति च ॥ ९९ ॥ ततः क्रुद्धेन नृपेण ते सप्तशतमिताः प्रतोलीप्राहरिका: स्वसमीपे समाकारिताः, पृथक्पृथक् च पृष्टास्ते कथयामासुः । हे राजन् वयं तु तद्वार्तामपि न विद्मः, राज्ञोक्तं रे दुष्टा यूयं तत्रारक्षकाः
१. पापनाशैरिति ।
For Personal & Private Use Only
RERERERERERERERERERERERY
श्रीरूपसेन
चरित्रं
॥
॥
jainelibrary.org