SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 यो यत्कर्म करोत्यत्र, तत्तद्भुक्ते स एव हि । न ह्यन्येन विषे भुंक्ते, मृत्युरन्यस्य जायते ॥१०॥ वेश्याभिरुक्तं हे स्वामिंस्तत्सर्वं सत्यं, परं मासैकमध्ये वयं तं दुष्टाचारिणं नूनं शोधयित्वा भवतेऽर्पयिष्यामः, अन्यथा ते आरक्षका वयं च सर्वा अपि गृहसर्वस्वदण्डपूर्वकं भवता शूलायामारोपणीयाः । अतो मासं यावत्तेभ्योऽभयदानं प्रयच्छ । राज्ञापि तासां विज्ञप्त्या तत्प्रतिपन्नम् । पौरा अपि हृष्टाः सन्तस्तासां वेश्यानां साधुकारमवदन् । अथ वेश्यानां सा प्रतिज्ञापि सर्वत्र प्रसिद्धाभूत् । ततस्तासां वेश्यानां मध्ये या मुख्या वेश्यासीत्तया स्वबुद्ध्या सिन्दूरमानाय्य राजकन्याया: प्रासादे तस्याः पल्यंकस्य परितः स सिन्दूर: सर्वतो विकीर्णः, अथ ते प्राहरिका अपि सर्वे सावधाना: सन्तो रात्रौ तत्र रक्षां कुर्वन्ति स्म । तत: संध्यायां कुमारस्तथैव गगनमार्गेण तत्र समागतः, तदा कुमार्या तस्मै प्रोक्तं हे स्वामिन्नद्य तु राजसभायां वेश्याभिर्मिलित्वा भवद्ग्रहणप्रतिज्ञा कृतास्ति । तत् श्रुत्वा कुमारेणोक्तं हे प्रिये तद्विषये त्वया मनसि किमपि भयं नानेयं, राजकुमारी पुनरुवाच हे स्वामिंस्ताभिरत्रेदं सिन्दूरकपटं रचितमस्ति, तेन न जानेऽथ किं भविष्यति ! अतस्त्वयापि सावधानतया स्थेयं, कापि बुद्धिश्च चिन्तनीया । अथ स XXXXXXXXXXXXXXXXXXXXXXX ॥ ४२ ॥ ॥ ४२ ॥ Jain Educat For Personal Private Use Only Ljainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy