________________
श्रीरूपसेनचरित्रं
||
Jain Educa
GRERERERERERERERERERERE
विमानस्थित इव गन्तुं लग्नः, ततो गगनस्थेनैव तेन योगिनः प्रति कथितं भो योगीन्द्रा मया युष्माकं सर्वेषामपि युक्तं कृतमस्ति, अथ भवद्भिर्मनसि किमपि नानेयं, यतो मया यूयं सर्वेऽपि किमप्यनर्पणात्तुल्या एव कृता: स्थ । एवं स तेषां प्रत्यक्षं तालीत्रयं दत्त्वा वेगेन गगने गच्छंस्तद्दृष्टिपथातीतोऽभूत् ।
अथ विलक्षीभूतास्ते व्यचिन्तयन्नहो तेन धूर्तेन वयं प्रत्युत वञ्चिताः उक्तं च
अन्यथा चिन्तितं कार्यं, विधिना कृतमन्यथा । सरोऽम्भश्चातकेनात्तं, गलरन्ध्रेण गच्छति ॥६८॥ अभिनवसेवकविनयैः, प्राघूर्णोक्तैर्विलासिनीरुदितैः । धूर्तजनवचननिकरै - रिह कश्चिदवञ्चितो नास्ति ॥६९॥ अरे तद्वञ्चनं चिन्त्यमानाः प्रत्युत वयमेव वञ्चिताः, एवं ते विषण्णा योगिनो दुःखीभूताः सन्तो वने भ्रमन्ति स्म । ग्रामे ग्रामे च भिक्षां मार्गयन्ति स्म, एवं तैरिहलोकेऽपि परहत्याचिन्तनपापस्य फलं प्राप्तं, कर्मणां गतिर्विषमास्ति, यतः
कृतकर्मक्षयो नारित, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥७०॥ अथ ते योगिनश्चिरन्तनं स्ववासस्थानं तं वटं मुक्त्वा परदेशे प्राप्ताः । इतश्च स
For Personal & Private Use Only
EDERERERERERERERERERERE
श्रीरूपसेन
चरित्रं
॥ २४ ॥
www.jainelibrary.org