________________
श्रीरूपसेनचरित्रं
॥ २१
Jain Educat
GREREREREREREREREREREREI
दृष्टाः, तेन च मयैको बाणो भग्नः, किंच युष्माकं शुद्धिं कुर्वतो ममात्र वने बहूनि दिनानि जातानि, अद्यैव भवन्तो ते दृष्टिपथं प्राप्ताः, तत् श्रुत्वा योगिभिश्चिन्तितं नूनमेष कोऽपि सत्त्ववान् रूपवान् तेजस्वी पुरुषो दृश्यते, तेन कमपि बुद्धिदम्भं कृत्त्वामुं पाशे पातयाम:, इति विचिन्त्य ते कुमारं प्रति प्रोचुः, हे सत्पुरुष ! त्वां तु सुजनं दृष्ट्वा वयं तव सन्मुखमागताः स्मः, त्वं चास्माकमुपरि विरूपं चिन्तयसि, वयं त्वेवं जानीमो यद्भवादृशानां संगतिस्तु भाग्येनैव लभ्यते, वयं तु संसारादुद्विग्ना योगिनः स्मः अत्र पुनर्निर्जने वने त्वत्समागमतोऽस्मन्मनोनिवृत्तिर्जातास्ति, यतः - संसारभारखिन्नानां, तिस्रो विश्रामभूमयः । अपत्यं सुकलत्रं च सतां संगतिरेव च ॥ ६३॥ तत् श्रुत्वा कुमारेणाप्युक्तं भो योगिनो युष्माभिरेतत्सत्यमेवोक्तं यतः -
संसारकटुवृक्षस्य द्वे फले अमृतोपमे । सुभाषितरसास्वादः, संगतिः सज्जने जने ॥ ६४ ॥ ततो योगिभिर्बहुमानपुरस्सरं स रूपसेनकुमारः स्ववटवृक्षस्याधो नीतः, ततस्तैः कुमारस्याग्रे कपटेन वैराग्यमयवार्ताः कथिताः, ततः कुमारेण तेभ्यः पृष्टं भो भो योगिनो युष्माकं व्रतग्रहणे सति कियन्ति वर्षाणि जातानि ? तैरुक्तमस्माकं योगग्रहणे पञ्चशतानि वर्षाणि जातानि तत्
For Personal & Private Use Only
GRERERERERERERERERERERES
श्रीरूपसेन
चरित्रं
11
२१
w.jainelibrary.org