________________
श्रीरूपसेनचरित्रं
२० ॥
Jain Educati
REREREREREKEKERERERERERE
तेन नदीतो वस्त्रपूतं जलं पीतं यतः
सत्यपूतं वदेद्वाक्यं, मनःपूतं समाचरेत् । दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् ॥६०॥ पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् । मूढैः पाषाणखंडेषु, रत्नसंज्ञाभिधीयते ॥ ६१ ॥ अथ स तस्तं कनकपुरं प्रति गच्छन् दूरस्थमुच्चैस्तरं तं वटवृक्षं ददर्श, ततः सावधानतया यावत्तस्य वृक्षस्य समीपे स याति तावत्तैश्चतुर्भिर्योगीन्द्रैः स मार्गे आगच्छन् दृष्टः, तदा ते संमील्य परस्परं कथयामासुरहोऽयं समागच्छन्नरः कोऽपि महापुरुषो ज्ञायते इति विचार्य ते तस्य सन्मुखं चेलुः । ततो यदा ते कुमारस्य दृक्पथं प्राप्तास्तदा तेन चिन्तितं नूनमेते त एव योगिनः संभाव्यन्ते, अतोऽत्र कापि बुद्धिश्चालनीया, यतः
ज्यां होये सही बुद्धिडी, न होय तिहां विणास । सुर सर्वे सेवा करे, रहे आगल जिम दास ||६२|| अथ तस्य कुमारस्य पार्श्वे पञ्च बाणा अभवन् । तन्मध्यात्तेनैको योगिसमक्षं भग्नः, तद् दृष्ट्वा तैर्योगिभिस्तद्भगकारणं कुमारः पृष्टः, तदा कुमारेणोक्तं मया प्राग्यूयं पंच श्रुता अभवन् । तेन च मया युष्मद्वधाय पंच बाणा आनीता आसन्, परं साम्प्रतं तु मया यूयं चत्वार एव
For Personal & Private Use Only
FRERERERERERERERERERERERE
श्रीरूपसेन
चरित्रं
॥ २० ॥
jainelibrary.org